कमलवनमुपाश्रिता जरन्तः करिकटभित्तिमुपस्थिता युवानः ।
इति मधुपगणा द्विधा विभिन्ना अपि खन्नु कर्मकराः समं स्मरस्य ॥ ८४ ॥
चिरपरिमुषितप्रदेशचिह्नाः समुपगताः सरसी: पुनश्च हंसाः ।
कथमपि रसवर्णगन्धभेद्रैर्निजनिजमम्बुज कोशमभ्यजानन् ॥ ४५ ॥
अतिविमलमयत्नशीतमम्भः स्फुरदरविन्दसुगन्धयः समीराः ।
निरुपधिकरुणामयी च राक्ज्ञीत्यजनि जनेषु परम्परा शुभानाम् ॥ ८६ ||
तत्तन्नृपालपरिपालनसम्प्रसूत-
मालिन्यमार्जनसमुज्जुलतां धरित्रीम् ।
भूयः स्वयं विमलयन् समयः प्रसादं
मन्ये चकाङ्क्ष मलयध्वजकन्यकायाः ॥ ८७ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे सप्तमः सर्ग. |
अथाष्टमः सर्गः ।
जातुचित् तदनु पाण्ड्यकुमारी चित्रिते सदसि रत्नगणेन ।
दर्शनैरपि च षड्भिरलभ्यं दर्शनं निजमदात् प्रकृतीनाम् |॥ १ ॥
तापसा द्विजवरा धरणीशा बन्धवः परिजना भटमुख्याः ।
पौरजानपदवन्दिगणाश्च प्राविशन् सदसि तत्र विचित्रे ॥ २ ॥
तान् यथायथमथोपचरन्ती सा प्रणामवचनस्मितदृग्भिः |
अक्षमामजनयत् त्रिदशानां मानवेषु मघवत्प्रभृतीनाम् ॥ २ ॥
वीज्यमानमभितो युवतिभ्यां चामरद्वयमदृश्यत तस्या: ।
यत्परत्वमथ यत्सुलभत्वं तद्यशोयुगमिवातिविशुद्रम् ॥ ४॥
छत्रमेकतरमूर्ध्नि तेन शिशिरं जगदासीत् ।
एतदत्र हि निदर्शनमेषा यत् प्रपञ्चवपुषा परिणेमे ॥ ५ ॥