सर्वरात्रमपि सा जनयित्र्या सल्लप्रन्त्यविरलं शफराक्षी ।
पञ्चषक्षणमितामिव मेने ताम्रचूडनिनदेन तमिस्राम् ॥ ३१ ॥
आज्ञ्या स सुमतेरधिसैन्यं ताडितो विजयदुन्दुभिरस्याः ।
आरवैर्जलदनादगभीरैरावृणोदिव दिवञ्च भुवञ्च ॥ ३२ ॥
निर्जराः किमपि पाणिविहारैः पनगास्तु पुनरक्षिनिकोचैः ।
तैयैरपि नरा व्यवजह्रस्तद्रवैर्मुखरिते जगदण्डे ॥ ३३ ॥
उच्छ्रितध्वजमुपस्थितयोधं सज्जवारणतुरङ्गशताङ्गम् ।
सन्ननाह सकलं वलमस्यास्तूर्ययोगमुग्रं निमिषेण ॥ ३४ ॥
दिग्जयाय कृतमङ्गलरक्षा सा त्रिलोकजननी जनयित्र्या ।
निर्जगाम शिबिकामधिरूढा सम्प्रचालय सकलं बलमग्रे ॥ ३५ ॥
अग्रतो भटगणैरथ वाहैः कुञ्जरैरथ रथैरथ भृर्त्यैः ।
सौविदल्लनिकरैरथ तस्या दूरतः प्रचलितं शिबिकाग्रे ॥ ३६॥
राजचिह्ननिवहैर्मणिवेनैर्वल्लकीडमरुवेणुमृदङ्गैः ।
गद्यपद्यपठनैरपि सेवां सुभ्रुवो विदधिरे धुरि तस्याः ॥ ३७ ॥
अग्रतश्चलदसंख्यतुरङ्गोद्घृतभूतलरजःस्थगितार्के ।
दिक्तटेऽपि बुबुधे सरणिः स्वा तङ्बलेन पवनैरनुकूलैः ॥ ३८ ॥
सैन्धवैर्धुरि समुद्गमिता ये पांसवो दश दिशः परिवव्रुः ।
तानशीशमदिह द्विरदानां दानशीकरकिरः श्रुतिवातः ॥ ३९ ॥
विश्लथेषु शरदागमयोगाद् विष्वगैक्षत पयोदकुलेषु ।
शातमन्यवशरासनखण्डं हस्तलभ्यमिव हस्तिपकानाम् ॥ ४० ॥
दंशितस्तुरगबद्धनिपङ्गो बाणपाणिरधिरोपितचापः |
आप्तसैन्यसहितः सुमतिस्तामन्वयाच्चरमतः शरपाते ।। ४१ ।।
उद्गृहीतविहितैरुपहॉँरैर्वत्रपातचकिताः कृतसङ्घाः ।
आकुमारमवलोकयितुं तां प्रस्थितां प्रकृतयः परिवव्रुः ॥ ४२ ॥
मुग्धसल्लॅपनकौतुकभूम्ना मन्दचालितगतीशिबिका सा
सम्प्रवादमशृणोदिति तासां ग्राम्यभावपिशूनं विहसन्ती ॥ ४३ ॥
पश्य ! कालि ! मलयध्वजकन्यां कुठिजके! जनकवन्मुखमस्याः ।
ज्यायसी हि दुहितुर्मम मासैः पञ्चपैरियमहो शिशुरेव ॥ ४४ ॥