हंसेषु कञ्चुकिषु षट्चरणेषु कुब्जेष्वादेशहारिषु मरुत्सु च सङ्गतेषु ।
- उद्घाटयन्त्यधिकृता इव शार्ङ्गपाणेरन्तःपुरं घटितमंशुमतो मयूखाः ॥ ५ ॥
उन्मुद्रिते सति मनागरविन्दकोशे भृङ्गैरहम्प्रथमिकाकलितप्रवेशैः ।
आस्कन्द्यमानमपि सौरभमेकतस्तदादाय यान्त्यपरतो मरुतो यथेच्छम् ॥ ६॥
भूदेवमन्त्रितविमुक्तजलाञ्जलिभ्यो निर्गत्य दैत्यहननाय समन्ततोऽपि ।
आसीदतामिव रविं महसा पवीनां पौरन्दरी हरिदियं परिपिञ्जरासीत् ॥ ७ ॥
अम्भोनिधेस्तपनवाजिभिरुज्जिहानैरा धूत कन्धरसटैरसकृद्विकर्णा ।
सामुद्रविद्रुमलताशकलावलीयं प्राचीमुखे विजयते नतु सान्ध्यरागः ॥ ८ ॥
निर्जित्य विश्वमखिलं मकरध्वजेन निर्गच्छता शिबिरसीमनि दीपितस्य |
मन्यामहे हुतभुजः प्रथमप्रकाशो मारुत्वते जयति सम्प्रति दिग्विभागे ॥ ९॥
जैत्रप्रयाणसमयं त्वयि वक्तुकामः प्रायः प्रबोधसमयं प्रतिपाल्य भानुः ।
उन्मज्ज्य सागरजलादुदयाद्रिशृङ्गे लीनः क्वचिन्न किल दर्शयतेऽधुनापि ॥ १० ॥
आमोदते बत कियत् कमलाकरोऽयमस्मिन्नपि प्रविकसत्यरविन्दकोशे ।
उन्मुद्रय त्वमधुना नयनारविन्दमामोद तामखिलभम्ब ! जगत् त्वयेदम् ॥ ११ ॥
सुप्रातमस्तु मलयध्वजकन्यकायाः सुप्रातमस्तु मधुरापुरवल्लभायाः ।
सुप्रातमस्तु विधुवंशपताकिकायाः सुप्रातमस्तु हरितां जगतां त्रयाणाम् ॥ १२ ॥
इत्युक्तिभिर्मृगदृशां प्रतिबोधिता सा निर्वर्त्त्य नैत्यिकविधिं नृपतेः कुमारी ।
सज्जीकृतं सुमतिना सकलं बलं तत् प्रस्थाप्य पार्थिवकुलानुगता प्रतस्थे ॥ १३ ॥
अत्यद्भुतो विजयदुन्दुभिनादमन्त्रस्तस्या नृपालकुलकर्णपथावतीर्णः ।
अस्तम्भयद्व्यधमदाचकृषे जघान निन्ये वशं व्यघटयच्च यथायथं तान् ॥ १४ ॥
भेरीरवश्चलति योजनमेव यावत् तावत् ततो दशगुणं चलितः प्रतापः ।
कीर्तिस्ततो दशगुणं व्यचलत् ततोऽपि चेलुस्ततो दशगुणं विगता विदूरे ॥ १५ ॥
वार्ताहरा दिशि दिशि प्रहिता हि यावदागत्य मन्त्रिणि न तं मुदन्तमाहुः ।
तावत् त एव धरणीपतयः सदारा: सोपायनाः शरणमीयुरिमां सबालाः ॥ १६ ॥
१. न किल दर्शयते चक्षुर्गोचरो न भवति । ‘णेरणौ' (१-३-६७) इत्यात्मनेपदम्.
- ‘व्याकोचयन्न' इति कपुस्तके पाठः.