पृष्ठम्:शिवलीलार्णवः.djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
शिवलीलार्णवे


अम्बा तथेति गिरमभ्युपगम्य तस्य सन्नयतामिति च सा पृतनां नियुज्य ।
सस्नौ भवाङ्गपरिरम्भकृतार्थमम्भस्त्रैस्रोतसं किल पुनश्च कृतार्थयन्ती ॥ ४२ ॥
यद् ब्रह्मणोऽभिभवनं सलिलात्मना प्राग् यश्चाथ शन्तनुभुवां सलिलापवेधः ।
अंहो निरन्वयममृज्यत तत् समस्तं तस्यास्त्रिलोकजननीचरणार्पणेन ॥ ४३ ॥
सा संवृता नृपसुता परितः सखीभिः स्नानाय गाङ्गसलिले कलितावतारा ।
स्नान्तीभिरत्र सुरुपन्नगकन्यकाभिः संयुज्य मज्जनकुतूहालिनी विजह्रे ॥ ४४ ॥
सख्यो नृपालदुहितुर्विहतिच्छलेन नेत्रे पिधाय बधिराः फणिराजकन्याः ।
स्मेराननासु परितः सुरसुन्दरीषु स्वैरं किलापजहसुः श्रवणव्यपायात् ॥ ४५ ॥
संसारासिन्धुतरणिस्तरणिं विनैव सा दूरमप्लवत तत्र समं सखीभिः ।
प्रागार्जितं वितरणित्वकृतं यशो यत् तेनाधुना द्विगुणितं तदभूदमुप्याः ॥ ४६ ।।
उद्दामनिश्वसितसौरभसारलोभादुन्मज्जनावसरमेव चिरं प्रतीक्ष्य ।
तं देशमप्रजहती भ्रमरावलीव स्नान्त्या बहिर्विरुरुचे कबरी श्लथास्याः ॥ ४७ ॥
सा नन्दनोपवनचन्द नमङ्गरागमालिम्पती समुपदर्शितमप्सरोभिः ।
सस्नौ यद। सुरसरित्सालले तदैव चक्रे सुरद्रुमसमाहरणावसायम् ।। ४८ ॥
इत्थं विहृत्य सलिले सुचिरं सखीभिरुन्मज्ज्य नैत्यिक विधेरनु पाण्ड्यकन्या ।
तां सेतुना प्रथमतः सरितं ततार नौकासहस्र निबिडाकलितेन राज्ञी ॥ ४९ ॥
अस्त्रादपादपि चमूरधिगङ्गमस्या मेने कमप्यतिशयं न तु तावता सा ।
राजीवबान्धवरथे वसतो जनस्य को नाम दीपसमवायकृतः प्रकाशः ॥ ५० ॥
आदाय पुष्करमुखैभितो विकीर्य यावत् किल व्ययितमम्बु सुरस्रवन्त्याः ।
तावत् ततो द्विगुणमप्यभिवर्षति स्म दानोदकैर्द्विपगणः परितः सुतस्ताम् ।। ५१ ॥
मातङ्गपुङ्गवतुरङ्गशताङ्गयोधपाणिन्धमे धरणिसेतुपथे चरन्ती ।
नक्तन्दिवैस्त्रिभिरशिश्रयदभ्रसिन्धोः पारं परं निरवशेषमनीकिनी सा ॥ ५२ ॥
सा सन्निपात्य सकलामपि वाहिनीं तामाज्ञां वितीर्य च गिरेरधिरोहणाय ।
आळीजनाकलितसारथिकर्म सुस्थं कर्णीरथं कमपि तु स्वयमारुरोह || ५३ ॥
तां वाहिनीं सुमहतीमपदिश्य तस्या गजैव तं गिरिवरं पुनरारुरोह ।
प्रस्थानसम्भ्रमवशादनिवेदितं प्रागुक्तव्यशेषमिव किञ्चन वक्तुमीशे ॥ ५४ ॥



१. वितरणित्व वितरणवत्त्वं तरणिशून्यत्व च । तेन कृतम्.