पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
श्रीशिवस्तोत्रावली


व्यते सा मह्यं न रोचते-भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वात् , इत्येवं परमेतत् ॥ ११ ॥

भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याविद्योभयस्यापि त एते तत्त्ववेदिनः ॥ १२ ॥

भवद् = आप की
विद्या- = विद्या तथा
भक्ति. = भक्ति रूपिणी
अविद्या- = अविद्या
महाविद्या = अध्यात्म-विद्या
उभयस्य = दोनों का
येषाम् = जिन (पुरुषों ) के
अपि = ही
अभ्यासम् = अभ्यास में
तत्व-वेदिनः = सार-भूत तत्त्व जाननेवाले
आगता = आई हो,
ते पते = वे ही तो
(भवन्ति = होते हैं ) ॥ १२ ॥

 विद्याविद्योभयस्यापि-इति विद्याविद्यालक्षणस्योभयस्य | तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्यारूपस्य, विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूपस्य उभयस्यापि ते तत्त्वं विदन्ति, येषां त्वद्भक्तिरेव महाविद्या प्रकर्षं प्राप्ता | महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्तत्त्ववेदकत्वम् ॥ १२॥

आमूलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ १३ ॥

आमूलात् = मूल ( अर्थात् परावाग् भूमि ) से
त्वद्- = आप की
भक्ति = भक्ति रूपी
क्रमः = ( पश्यन्ती, मध्यमा और वैखरी रूपी) क्रम के
सुधया = अमृत से
सिक्ता = सींची हुई तथा
विस्फार. = विकास से
तद्रस. = उस( भक्ति के आनन्द ) के रस रूपी
शालिनी = मुशोभित बनी हुई
सा इयं = वही यह
आढ्य- = बड़े
वाग्लता = वाणी रूपिणी लता
फला अस्तु = फलों वाली हो ॥१३॥
मे = मेरे लिए


१. ख० पु०-तत्तद्वेदकत्वम् इति पाठः ।