पाशानुद्भेदनाम षोडशं स्तोत्रम् २६९ - रणात्मना संहारेण, प्रसाधनेन – प्रकर्षेण सिद्धिसंपादिना सर्गेण च, सम्यक् भुक्तं—पालितमभ्यवहृतं च, तथा समस्तं सम्यक् क्षिप्तं विश्वं यया तुर्यरूपया श्रेयः स्वभावया शिवया । अत एव प्रलयोत्सवेन - सृष्टि- स्थितिसंहारिणामपि - संहरणात्मनाभ्युदयेन सरभसया - सातिशयं स्फुरन्त्या | तथा पानेन - साराहरणेन, अशनेन - अवशिष्टशिल्कप्राय- वस्तुभक्षणेन, प्रसाधनेन - एतदवशिष्ट संस्कार संहरणात्मना चित्प्रमा- तृतोत्सेकमयेन संभुक्तं कवलितं समस्तं संस्कारशेषमपि विश्वं यया, अत एव विश्वस्य प्रलयोत्सवे सरभसया | बाह्यक्रमेणापि, – रक्तादेः पानेन, मांसादेरशनेन, अस्ध्यादेः प्रसाधनेन - भूषणताकरणेन, सम्भुक्तं – स्वोर्षंभोगपात्रीकृतं सम्यगस्तं चात्मन्येव क्षिप्तं - समस्तं च षट्त्रिंशत्तत्त्वमयं विश्वं यया | प्रलयोत्सवे – कल्पितसंहर्तृपद् प्रलीनता- करणक्रीडायां सरभसया - प्रोद्युक्तया | अनुरणनशक्त्यापि पानचर्वण- मण्डनैः सम्भुक्तं – सम्भोग्यतां नीतं समस्तं विभवरूपं विश्वं यथा सुन्दर्या सा प्रकर्षेण लयोत्सवे - उभयानन्दसमापत्यात्मनि सरभसया सती शक्तिमतमाश्लिष्यन्ती भवति ॥ २६ ॥ - - - - परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या | अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ ३० ॥ विश्वेश = हे जगत्- प्रभु ! तव = आप की १ ख० पु० सिद्धिसंपदादिना - इति पाठः । - २ ग० पु० परमेश्वरता = ( परम- शिव रूपिणी ) बड़ी ईश्वरता सृष्टिस्थितिसंहाराणामपि ३ घ० पु० स्फारयन्त्या - इति पाठः । ४ ग० घ० पु० शल्कप्राय - इति पाठः । - ५ ख० पु० तक्रादेः- इति पाठः । - ७ ख० पु० सर्वेश - इति पाठः । - - इति पाठः । - ६ घ० पु० स्वोपयोगपात्रीकृतम् - इति पाठः । -
पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति