सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ब्रह्मेन्द्र विष्णुभिः- सृष्ट्यधिष्ठितिस्थितिकरैः कथमपि निर्वाहितत्वात् यत् निर्व्यूढं – संपन्नं जगत्, तस्य सर्वैः सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकरणीयः । सर्वशक्तिः - ब्रह्मादिदेवेन्द्राणामपि स्वकर्मणि एतदीयसंजिहीर्षा भावाभावमुखप्रेक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः ॥ १३ ॥ - तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः । तस्मै यस्य यस्य = जिस के तटेषु = किनारों पर - एव = = ही परिभ्रान्तैः घूमते-घामते नमस्तुभ्यमगाधहरसिन्धवे ||१४||
- लब्धाः = पाई जाती हैं,
तस्मै तुभ्यं = उसी आप अगाध = अथाह ( और अन्त से रहित ) ( जनैः = लोगों से ) - तास्ताः = वे ( अर्थात् सुप्रसिद्ध ) विभूतयः = (आदि) सिद्धियाँ हर = शिव रूपी सिन्धवे : 1 = समुद्र को नमः = नमस्कार हो ॥ १४ ॥ २७ तटेषु एव - मन्त्रमुद्राचक्रभूमिकादिज्ञानेषु चिद्रसप्रसर बाह्यभूमिषु परिभ्रान्तै:- - ‘पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः । कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे ॥' ऊर्मिकौल तं० ॥ इत्याम्नायस्थित्या अन्तःसारानासाद्नाद् भ्राम्यद्भिः । तास्ता इति - भेदमय्योऽणिमादिका: । अगाधहरसिन्धवे इति - अपरिच्छेद्यान्तस्त- त्त्वाय महेश्वरसमुद्राय | समुद्रस्य च तटेष्वेव ये भ्राम्यन्ति ते तन्मौक्ति- कादि आनुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानिर्वृतिप्रदममृतमपि अश्न- न्तीति रूपकश्लेषेण ध्वनति ॥ १४ ॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ १५ ॥ १. ख० पु० निर्वायत्वादिति पाठः । २. ख० पु० ब्रह्मादीनामपि इति पाठः । ३. ख० पु० समुद्रे – इतिः पाठः । -