'श्रीशिवस्तोत्रावली 'हरि: पुरुषोत्तमः' - इति प्रसिद्धः । स युष्मच्छेषेण - तावकेन अभेदसार विद्याधिष्ठातृप्रमातृषु च विलब्धादन्येन अधिष्ठानात्मना स्त्ररूपेण विशेषितः - सम्पादित विशेषः । तथा चागमः “वैष्णव्यास्तु स्मृतो विष्णुः ।” इति । त्वं सकलादिसदाशिवान्त निःशेषपुरुषाश्रयत्वान्महापुरुषः । अन्य शब्दः कश्चिदर्थः । एकः - अद्वितीयः । इति एकः श्लोकार्थः । अपरस्तु व्याकरणप्रक्रियया उत्तमपुरुष: अस्मदर्थे यः स युष्मच्छेषाभ्यां -मध्य- मप्रथमपुरुषाभ्यां विशेषितः – सञ्जातविशेषोऽस्ति, तस्य च तटस्थ - परामृश्यात्प्रथमपुरुषात् युष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेष:, यद- शेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वं । सर्वस्येद्न्ताविमृश्यस्याहन्तायामेव विश्रान्तेः–स पचति, त्वं पचसि, अहं पचामि इति विवक्षायां वयं पचामः—इत्यादौ प्रयोगेऽयमेवाशय इत्यास्ताम् | त्वं तु निःशेषाणां - 'तु प्रथममध्यमोत्तमपुरुषाणां कल्पिताना मकल्पितचिद्रूपः आश्रयः । यथोक्तं प्रत्यभिज्ञायां - "ग्राह्यग्राहकताभिन्नावय भातः प्रमातरि ॥” १०, ४०, ०८ ॥ इति । अत एत्र महापुरुष:- महेश्वरो, महादेववन्महच्छब्दस्य त्वय्येव प्रवृत्तत्वात् ॥ १४ ॥ जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो । संसारार्णव एवैष येषां जगतां विभो = हे ( सभी ) भुवनों जगद् - = जगत में के स्वामी ! बन्द्याः = पूजनीय ते = वे - क्रीडामहासरः ॥ १५ ॥ ते = आप के १. ख० पु० अभेदसार विद्याधिष्ठातृषु २. ख० पु० अस्मदर्थरूपः इति पाठः । ३. ख० पु० चयमेव पचामः - इति पाठः । ४. ख० पु० चिनिःशेषाणाम् इति पाठः । ५. ख० पु० अकल्पितश्चिद्रूपाश्रयः - इति पाठः । ग० पु० अकल्पितचिद्रूपाश्रयः - इति पाठः । - प्रमातृषु - इति पाठः ।
पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति