ॐ तत् सत् अथ सुरसोइलाख्यं चतुर्थ स्तोत्रम् चपलमसि यदपि मानस तंत्रापि श्लाघ्यसे यतो भजसे । शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम् ॥ १ ॥ मानस = हे ( मेरे ) मन ! यदपि = यद्यपि - ( त्वं = तू ) चपलम् = चञ्चल असि = है = तत्रापि = तो भी श्लाध्यसे = = प्रशंसनीय है, यतः = क्योंकि ( त्वं = तू ) शरणानाम् अपि = रक्षकों की भी = शरणं : = रक्षा करने वाले, त्रिभुवन - = तीनों भुवनों के गुरुम् = स्वामी और अम्बिका = पार्वती के = कान्तम् = प्रिय ( महादेवं = महादेव जी को ) ( यदा तदा अपि = जब तब भी ) भजसे : = भजता है ॥ १ ॥ - चौपल्याद्यद्यपि भगवद्भजने न प्ररोहसि तथापि कृतार्थमसि - क्षण- मात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रदत्वात् । अत एव शरणानामपीति- असामान्यतां भगवतः प्रथयति । शरणानां - ब्रह्मविष्ण्वादीनामपि शरणं - समाश्रयं, त्रिभुवनगुरुं विश्वस्योपदेष्टारं पूज्यं च | अम्बिका- पराशक्तिः ।। १ ।। १. ख० पु० तथापि - इति पाठः । २. ख० पु० भुवनगुरुम् - इति पाठः । ३. ख० पु० चापलाद्यद्यपि - इति पाठः ।
पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति