पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रीशिवस्तोत्रावली किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ १६ ॥ नाथ = हे स्वामी ! - सतत = सदा फुल्ल - = खिले हुए भवत् = आप के मुखपङ्कज = मुख कमल के उदर = मध्य भाग को विलोकन - = देखने के लिए लालस- लालायित बने हुए = मन वाले चेतसः मम = मुझ पर - मनाक् इव = ज़रा सा तत् = वह किमपि = अलौकिक ( अनुग्रह ) - कुरु = कीजिए: येन = जिससे किं - अभिमुख- = ( मेरे ) सामने स्थितिः सन् = ठहरे हुए रूप में स्फुरसि = आप प्रकट हो जायें ॥ १६॥ सततं फुल्लं- नित्यं विकसितं यत् त्वन्मुखकमेलम् 'शक्तयवस्था प्रविष्टस्य निर्विभागेन भावना | तदासौ शिवरूपी स्यात् शैवीमुखमिहोच्यते ॥ वि० भै० श्लो० २० ॥ इति स्थित्या त्वत्पराशक्तिरूपं यंत्पद्मं तस्य यदुदरं मध्यं, परं तावकं परशक्तिसामरस्यमयं शाम्भवं रूपं, तस्य विलोकनं समावेशः, तत्र लालसं - सातिशयाभिलाषं चेतो यस्य, तस्य मे, किमपि तत्- असंभाव्यमुपायप्रदर्शनं, मनागिव - हेलामात्रेण कुरु, येन ममाभिमुख- स्थितिः सन् स्फुरसि ॥ १६ ॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ १७ ॥ १. ख॰ पु० त्वन्मुखकमलम् - इत्यनन्तरं 'शैवीमुखमिहोच्यते’–इत्येव पाठः । २. ख० पु० पद्मम् इति पाठः २. ग० पु० त्वत्पराशक्तिपद्मम् - इति च पाठः