पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
दन्तधावनविधिः ।

दन्तधावनविधिः । . न ततः परम् ॥ आद्मलकमानं स्यान्मूत्रशौचेतु मृत्तिका । द्विगुणं सृ त्तिकाशुक्लये त्रिगुणं दारसङ्गतौ । एतच्छौचं गृहस्थस्य भावशुद्भयै ततो ऽधिकम् । ब्रह्मचार्यादिकानां तु क्रमाद्वित्रिचतुर्गुणम् । यस्य यावद्दिवा शोचं तदर्ध निशि तस्य तत् । तदर्थमातुरे चोक्त मातुरार्ध वनाध्वनि ।आज गुकं चरणौ मृद्भिः करावामाणिबन्धको । संक्षाल्य क्षाळयेपश्च दाजान्वा कूर्परं जलैः ॥ धाराशौचं न कर्तव्यं शौचशुद्धिमभीप्सता। चुळकैरेव क हव्यं हस्तौ शुद्धिविधानतः ॥, शौचे मृज्जलदानार्थं कर्तव्यौ परिचारकौ । सव्यहस्तगृहीता च क्षेप्या मृद्वामहस्तके ॥ कुर्याद्वादश गण्डूषान् पुरी षोत्सर्जने कृते । कुर्वीत चतुरो मूत्रे भोजनान्ते तु षोडश ॥ (१) प्राङ् मुखः क्षाळयेत्पादौ हस्तैौ वक्रमुदङ्मुखः। (२. उदङ्मुखः प्राइसुखो वा ततस्त्वाचमनं चरेत् ॥

॥दन्तधावनविधिः॥

हृन्मन्त्रेण ततो ग्रावं दन्तकाष्ठं त्वरान्वितम् । अपर्वाग्रसमच्छेदमाद्य मग्रे च कूर्चितम् । कनिष्ठिकासमस्थौल्यं सूक्ष्मं वा दन्तसौक्ष्म्यतः ॥ अ ष्टांगुडं नैष्टिकानां भोगिनां द्वादशांगुळम। वर्णानां दशकं चाष्टसप्तांगु ळिकमेवच ॥ षडंगुठे प्रहीणानां नारीणां चतुरंगुलम् । जंब्याम्लककु भाशोक कपित्थवकुलोद्भवम् । प्लक्षौदुम्बरफुलांनी जाजीचम्पकशंखजम् । अतिमुक्तकदंबोत्थमपामार्ग च भोगिनाम् । ग्राह्यमेतच्च शैरीष चिरिबिल्व करञ्जकम् । श्रीपर्णदारुनिर्गुण्डी सारसं खादिरायते ॥ अक्षक्षीरिधवैरैण्ड बटाश्वत्थाप्राशित्रुजम्। अकुलीशेलुवानीर धात्री (३) चोदुम्बरोद्भवम् । खरों


१. प्राङ्गमन्त्रीतिपाठभेदः ।
२. प्राङ्मुखोवाथकुर्वी तेतिपाठभेदः।।
३. निम्बशरोद्भवमिति पाठभेदः ।