पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
शिवार्चनाचन्द्रिकायाम्

भुक्तिमुक्तिर्भवत्येव । तस्मान्मायि कृपया तत्गृहाणेति । ततः हां यास्किंचि कर्म हे देव सुकृतं वैव दुष्कृतम् । तन्मेशिवपदस्थस्य भुव क्षपय शङ्क र ॥ हां हों शिवाय स्वाहा । परमशिवायमे सुकृतंदुष्कृतंच निवेदयामीति सुकृतद्रेष्कृतात्मकं सर्वं कर्म प्रागुक्तक्रमेण चुळकोदकेन निवेदयेत् । तत्र सुकृतंजातस्य भोगार्थस्य मोक्षान्तरायपरिहारार्थस्य संरक्षणार्थं निवेदनम् । दुष्कृतजातस्यक्षपणार्थम् । अतस्सुकृतं भक्ष्व पालय । दुष्कृतं क्षपय ना- शयेति योजना । भोगनिस्पृहस्य केवमुमुक्षोस्तु मोक्षान्तरायपरिहारार्थं सुकृतमात्रमेव सुक्ष्त्रोत पालनप्रार्थना । भोगार्थसुकृतस्य शिवपूजाया म ङ्गफलखेनानुषंगिकस्य मानुषादहिरण्यगर्भानन्दान्तभोगप्रापकस्य विषये भ्यो जुगुप्समानं केवलं मुमुक्षुप्रति ‘एते वै निरयास्तात स्थानस्यपरमात्मनः इति पुराणोक्तरीत्या नरकप्रापकस्य दुष्कृतरूपतया क्षप्रणपार्थेनैव । यद्यपि पालनार्थे भुजिधातोः परस्मैपदितयाभुनक्षतपरस्मैपदिनाभाव्यम् । तथाऽपि सुन्त्ररूपेश्लोके वैदिकमन्त्रेषु रक्षस्वेतिप्रयोगइव छान्दसोऽयं ‘व्यत्ययो बहुळमियात्मनेपदप्रयोगः । यद्वा भैक्ष्वेति भोगएवोच्यते, नतु पाल नम् । सुकृतशब्देनच केवलमुक्यार्थिनः पूजकस्य यदनिष्टं भोगार्थ- सुकृतं तदेवाच्यते, नतुमुक्त्यर्थमपेक्षितम् ( तद्भोगश्शिवस्यराज्ञो राजभोगः वत् स्वाधीनव्यवहारः । नतु स्वयमेव भोजनम् । स्वाधीनव्यवहारश्च पूजकस्य प्रियेषु ज्ञातिषु तस्य यथाकथंचित् सुहृसुखानिवेशनम् । मुमुक्ष रनपेक्षितं सुकृतं शिवस्तस्य ज्ञातिसुहृद्यः प्रयच्छतीतिश्रुतिप्रसिद्धिः । यद्यपि तस्य दुष्कृतं तद्विषद्यः प्रयच्छतीत्यपि श्रुतिप्रसिद्धिरस्ति । तथाऽपि शिवपूजकः सर्वमष्टमूर्तेशिवस्य रूपं मन्यमान स्तानदंष्णीति तेन स्त्रदुष्कृतस्य स्वस्मिन्फलजनकत्वरूपं क्षपणमेव प्रार्थयितुमुचित मिति तप्रार्थन मन्त्रे निबद्ध । ततः शिवोदाता शिवो भोक्ता शिव सर्वमिदं जगत् । शिवो यजति सर्वत्र यशिवस्तोऽहमेन्नतु ॥ हां हैं