14] . शिवशनपूजाविधिः ॥ चतुरश्रमण्डले अष्टदळपद्मं तदावारक मष्टादशदळपद्मंच लिखित्वा कर्णि- कायां हौं शिवायनमः । हां वागीशायनमः । इति वागीश्वरसहितं शिवं संपूज्य पूर्वादिषु दशसु दळेषु कामिकादीन् सुप्रभेदान्तान् शिवेना- धिकरणान्तरनिरपेक्षेण साक्षान्निर्मिततया शेवसंज्ञान् दिव्यागमान संपूज्य अष्टादशसु दळेषु विजयादिवातुळान्तान् अनादिरुद्राद्यधिकरणेन शिवेन निर्मिततया रौद्रसंज्ञान् पूजयेत् । अथ गुरुं स्वपीठस्थं गत्वा तस्य पादौ प्रक्षाकय शिवबुद्ध्या गन्धादिभिस्संपूज्य पुष्पाञ्जलिलयं कृत्वा साष्टाङ्गं त्रिः प्रणम्योत्थाय भूमौ जानुनी न्यस्य कृताञ्जलिपुटः क्षमस्त्रेति ब्रूयात् । यदि 'मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पं बनान्तरे । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत्' इति शास्त्र मनुसृत्याधिकज्ञानार्थ मन्यं गुरु माश्रयति, तथापि पूर्वगुरुमपि यथापूर्वी पूजयेत् । ततरिशवसमीपमागत्याष्टपुष्पि- कया शिवं संपूज्य विशेषार्ध्य दत्वा प्रणामपुरस्सर मभितः प्रार्थनां कृत्वा ‘न्यूनं बाऽप्यधिकं वाऽपि यन्मया मोहतः कृतम् । सर्वे तदस्तु संपूर्ण त्वत्प्रसादात् प्रभोममे ति संप्रार्थ्य। 'अपरावसहस्त्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षन्तव्यं भक्तवत्सल ॥ स्वामिन्क्षुद्रेण दासेन मलीमसधिया मया । कदर्थितो वायद्भक्तिवशात् प्रीतः क्षमस्वत' दिति विज्ञापयेत् । ततस्सद्योजातादिक्रमेण पञ्चसुशिरस्सुशिवमभ्यर्च्या- स्त्रादिहृदयान्तान्यंगानिच प्रातिलोम्येन संपूज्य पूर्वबद्यथेष्टमूर्द्धमुखोभवति संप्रार्थ्य हां हौं शिवाय साङ्गाय पराखा स्वाहेति परामखार्घ्य दत्वा स- द्यादीनि ब्रह्माण्यस्नादीन्यङ्ग निच गर्भावरणरूपाणि देवस्यांगेषु योजयेत् । अन्येभ्योऽपि तत्तदावरणदेवेभ्यः परामखार्ध्यं दद्यात् । हुंफडन्तास्त्रेण करद्वयांगुष्ठतर्जन्यप्राभ्या मूर्द्धे पुष्पं प्रक्षिपन्नाराचमुद्रया मन्त्रानुत्थाप्य हां हं हां शिवमूर्तयेनमः । इतिदिन्यमुद्रया शिवस्य हृदयस्थाने संयोग्य तेषां
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति