पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परार्थालयदर्शनम् ॥ - तत्रायं क्रमः— देवालयसमीपं गत्वा गोपुरद्वारंबाह्ये वा बलिपीठस्य बाह्ये षा स्थूललिङ्गात्मकस्य विमानस्य नमस्कारं कुर्यात् । ततो भद्रालिङ्गस्य बलिपीठस्य ध्वजस्तम्भस्य वृषभस्यापि नमस्कारं कृत्वा । (श्लो) ' अन्तः प्रवेशे शिवदर्शनेच शिवार्च नेतत्फल सिद्धिलाभे । देशभ्यनुज्ञां भगवन् प्र सन्न स्त्वत्पादपद्मप्रणतायमा मिति वृषभं संप्रार्ध्य बलिपीठाप्रदेशे साष्टाङ्गं शिवं प्रणमेत् । देहं वस्त्रेणाच्छाद्य नप्रणमेत् । शिवस्याग्रष्पृष्ठ वामभाग गर्भगृहेषु च नप्रणमेत् । प्रत्याखे चोत्तर दियखेच लिङ्गे वामभागे प्रणमेत् | प्रणम्यच देवस्थ पुरतः पुष्पाञ्जलिं क्षिपेत् । ततः प्रदक्षिणं कुर्यात् । गर्भगृहेप्रदक्षिण मर्चकस्यैव । अन्तर्मण्डले प्रदक्षिणं दीक्षितानामेव | अन्तर्हा - रादिषु सर्वेषाम् । तत्रान्तर्हा रे प्रदक्षिण मेकगुणम् । मध्यहारेतिगुणैम् । मर्या- दायांचतुर्गुणं । महामर्यादायां पञ्चगुणं क्षेत्रावधौषड़गुणं । एवं बलकालाधिकारा नुरूपेप्रदेशे एकविंशतिंपञ्चदशवा सप्तवापञ्चवात्रीणिवा प्रदक्षिणानिकुर्यात् । अत्यन्तमनबसरे एकंप्रदक्षिणंवा कुर्यात् । एवंप्रदक्षिणं कुर्वन् गर्भगृहेन्तर्मण्ड- लेच संभावितं सोमसूत्रलङ्घनं नकुर्यात् । तल्लङ्घन्नवर्जनार्थं गर्भगे हे सोमसू तप्रभृति सव्यापसव्यमेव कर्तव्यम् । ततोबहि रन्तर्मण्डलमांत्रे सव्या पसव्यम् । तत्वेन्द्रादि सोमसूतादि वा कार्यमिति प्रागुक्तम् । प्रदोषेतु वृषादिचण्डनाथान्तं वृषभं सोमसुतकम् । पुनर्वृषं चण्डनाथं नाळदेश- स्य पार्श्वतः ॥ पुनः प्रयाया च्चण्डञ्च तथैव वृषपृष्ठकम् । एवं सव्या- पसव्यंतु प्रदक्षिण मिहोच्यते ॥ आद्यन्तं वृषदेवस्य चतुस्स्थान मुदाहृतम् । त्रिचण्डस्थानसंयुक्तं द्विस्थानं सोमसूत्रक' मित्युक्त प्रकारण कर्तव्यम् । सो- मसूत्रंच प्रासादाद्वहिर्नाळप्रदेशे प्रासादविस्तारमानं तदर्धमानं वा । तस्य लड़ने दोषः । सूवाद्वर्हिर्लंघनेतु नदोषः ॥ तदभ्यन्तरेऽपि सङ्कटे तृ- णादिक मन्तर्धाय लङ्घनीयम् । तृणैः काष्ठे स्तथा पर्णैः पाषाणे लष्टका- दिभिः । अन्तर्धानं पुनः कृत्वा सोमसूत्रं तु लङ्घयेत्' इतिवचनात् । क-