पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चना चन्द्रिकायाम् शिवाराधनरूपेति भावेन कर्तव्या तत्तत्क्रियाजन्यसुखमपि शिवस्तद्धो- केति शिवे समर्प्यतद्भुक्तमेव सुख मया भुज्यतइति भावेन भोक्तव्यम् । एवं विनैव स्वयत्नमुपनताशब्द स्पर्शरूपरसगन्धाख्या विषयाश्च शित्र- समर्पण पूर्वकं तदुच्छिष्टबुद्ध्यैवस्वेन्द्रियैरनुभवितव्याः । तत्तद्विषयानुभवज - न्यंसुखमपि तदुच्छिष्टबुद्ध्यैवभोक्तव्यम् । 'या या क्रिया विधातव्या प्रस्तु- वा जायते पुरः । तां तां कुर्यान्महादेवसमर्पितधिया सुधीः ॥ इन्द्रियादा मतं किञ्चित्सुखं तच्छिवार्पितम् । कृत्वा प्रसादं भोक्तव्यं तदिन्द्रियमुखे- नचे' तिवातुळश्रवणात् || तदर्थच भक्तेन सदा सावधानेन भाव्यम् । संयो गेषु वियोगेषु सावधानोनिरन्तरम् । गच्छन्तिष्ठन्स्वपन्जा प्रदुआनो मे. थुनेरतः ॥ याशिवार्पितचेतस्कोभक्तिमांस्तु नचान्यथे 'तिबृहत्काल त्तरे श्रव- णात् । एवं क्रियासमर्पणपूर्वकं क्रियां कुर्वतः विषयसमर्पणपूर्वकं विष याननुभवत स्तत्तजन्य सुखसमर्पण पूर्वकं सुखं भुञ्जानस्य च सावधानस्य भक्तस्य पूर्वजन्मवासनान्ते कचित् कचित् प्रमादान्निषिद्धक्रियां कुर्वतोऽपि निषिद्धविषयाननुभवतोऽपि निषिद्धसुखंभुञ्जनस्यापिनपापलेपोभवति । किंतु- सर्वे शिवसमाराधनमितिभावयत स्सर्वमपि शिवप्रीतय एव भवति । तत्रात्मभो गार्थ नृत्तावलोकनहर्म्या पवनदीर्घिकादिक्रीडारूपां क्रियामारभमाणस्तत्तक्रि · यासमये संभावितानां वाक्पाणिपादपायूपस्थरूपकर्मेन्द्रियव्यापारसाध्यानां श्रोतत्वकक्षुर्जिह्वाघ्राणरूपज्ञानेन्द्रिय जन्यतत्तद्विषयसाध्यानाच सुखानां समर्प- पार्थस्वकीये श्रोत्रादिज्ञानेन्द्रियपञ्चके वागादिकर्मेन्द्रिय पञ्चके च क्रमेणाधि- छातृत्वेन सन्निहिताना मीशानादीनां श्रोत्रादि वागादीनि स्वकीयश्रोत्रादिष्वै- क्येनानुसंधाय तत्तादन्द्रियव्यापाराद्ध्यसुखान्यैशानादि मूर्तीरधिष्ठात्राशिवे - नानुभूयमानानि विभाव्य तान्येव सुखानि शिवोच्छिष्टबुद्ध्या स्वयं भुञ्जीत । अयत्नोपनमद्विषयसुखसमर्पणं तत्तद्विषयोपभोगसमयेषुसावधानेन कर्तुमशक्तः प्रातर्वाशिवपूजावसानेवाभविष्यदेतत्समयपर्यन्संभावितायत्नोपन मच्छब्दरूपरस ·