समुदाय सख्यय योजनापरिमितो भवति । अस्मिन्तत्ववृद्धयाश्रयणेनप्रवृत्ते प्रक्षद्वयेऽपि नाळापात् प्रन्थेः पन्नस्य चातिदैर्यं स्यात् । तथाहि-- अत्र प्रथमपक्षे तावत् नाळान्तर्गतेषु तत्वेषु कालएकः परार्धयोजनः। कला तच्छतांशपरिमितैव । विद्यानियतपूर्वकपूर्वतत्वानि तच्छतांशपरिमितानी- ति नाळः किञ्चिदधिकैकपरार्धयोजनः । मायारूपोग्रन्थिस्तु शतगुणित परार्धयोजनः । कालाच्छतगुणत्वान्मायायाः पमं लक्षगुणितपरार्धयोज- नम् । पमरूपायाशुद्धविद्याया मायापेक्षया सहस्रगुणितत्वा दित्थं प क्षान्तरेऽपि प्रन्थिपञ्जयोजनदैर्यं स्यात् । एवं कन्दप्रभृति नाळापेक्षयाघ्रन्थेः पंजस्यच दैघ्र्यं न लौकिकपझच्छायानुकारि नवनाभिकन्दादिहूप्रदेशांत दैत्पअच्छायानुकारि । अतः कलावृद्विपक्षाश्रयणमेव शिवासनपक्षभावनाया मंनुकूलम् । इदञ्च कमलं अनन्तासन सिंहासन योगासन पझासन घिम लासनरूप पश्चसनगर्भम् । तत्रपृथिवीतलपरिमितकन्द एवाधारशक्तिः। जेलादि कालान्त तत्वपरिमितो नाळ एव तदुपरिस्थितपदमुकुळ्साहितस्सन् आधारशक्तिरूप क्षीरोदसमुत्थितफणामणिमण्डलसहित भुजङ्गमाकृतिशा- लि विचेश्वराष्टकान्तर्गतानन्तरुद्रेतदुभय मनन्तासनमुच्यते । नाळाद्य वधि जलतत्वप्रभृति गुणतंत्वपर्यन्तं नातूं परितःस्थितं सिहासनम् । तत उपरि प्रन्थिपर्यन्तं योगासनम् । तदुपरि दळकेसररूपं पझासनम्। कर्णिकैव विमलासनम् । कर्णिकोपरिस्थितगुणत्रय मण्डलत्रयतत्वत्रयात्मकं वा । यद्यप्यनन्तः सहस्रफणामाण्डितः सर्पबेनोक्त इति तस्य भोगदण्ड एवोड्रोकारस्थित नाळ, सङ्गचितं तत्फणामण्डलमेवात्र मुकुळे,नतु तद्वय- तिरेकेण परमस्ति, तथाऽपि तदेव विकासध्यानदशाया मष्टदळपद्मरूपेण भावनीयमिति पद्मासनमुच्यते । यद्वा वृत्ताकारं कोटिसूर्याभं सिंहासन दधस्थित मनन्तभोगरूप मनन्तपङ्कजरूपं नाळादन्यदेवानन्तासनं वृत्ता कारमुपर्युपरिस्थितानन्त बासुकि तक्षक कार्कोटक पदा महापद्म शङ्क
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
शिवार्चनाश्चन्द्रिकायाम्