पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
शिवार्चनाचन्द्रिकायाम्

पञ्चब्रह्मण्यूर्धपूर्वदक्षिणोत्तरपश्चिमान् । वक्त्रपद्मन्विभाध्ययेदशिानप्रभृति क्रमात् ॥ हृदयं हृदये शुभं शिरश्शिरसि पिङ्गळम् । शिखां शिखापदे रक्तां कवचं पार्श्वयोः स्थितम् । नेत्रेतु श्यामळं नेत्रं करेऽत्र मसितं स्मरेत् । चतुभुजात्रणेलाश्च जटामकुटमण्डिताः । वराभये कपालञ्च शूलश्च दधतं करैः ॥ अङ्गदेवाःस्मृतास्सौम्यनेत्रानेतूप्राविग्रहे । त्रिशूलस्रगुणः प्राहुः परशुस्सल्यायनिष्ठिताः ॥ खङ्गप्रतापोवद्भश्च शभोश्शक्तिरभेद्यता । वहसंहारिणी शक्तिशक्तिर्नागे प्रधृष्यता । मलमाया कर्मपाशो घण्टानादस्वरूपिणी । अभयं पालनी शक्ति नियमंत्वंकुशं विदुः । च्छाज्ञानक्रियारूपा स्त्रिशूलं शक्तधमताः । उक्ता स्ताएव खटङ्ग शुद्धतत्वप्रवर्तिकाः ॥ बीजपूरमिति प्रोक्ता जगीजप्रवर्तका । डमरुक्षभसंपनमायातत्वप्रवर्तिका ॥ काकोदरः कला मुख्या कार्यजातप्रवर्तिका । मनःप्रवर्तिकाशक्तिरिन्दीवरतया मता । अक्षमालातु सा ज्ञेया इन्द्रियाणां प्रवर्तिका । शक्त्यायुधामिका शक्ति ध्रुष्टसंहारकारिणी । वरो भोगप्रदा शक्ति रभयं मोक्षदायिका । इत्थं दशांखुधधरं कोटिशीतांशुशीतळम् ।