पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
शिशुपालवधे

 यां यां प्रियः प्रैक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव ।
 निःशङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥१६॥

 यां यामिति ॥ प्रियो हरिर्यां यामङ्गनाम् । 'नित्यवीप्सयोः' (८।१।४) इति वीप्सायां द्विर्भावः एकपदम् । प्रैक्षतालोकयत सा सा । पूर्ववद्द्विर्भावः । कातराक्षी साध्वसाच्चकितलोचना सती ह्रिया नम्रमुखी बभूव । एतेन कार्यद्वारा लज्जासाध्वसभावोदयः उक्तः । अन्यासामीर्ष्याभावोदयमाह-अन्या अप्रेक्षिताङ्गना आहितेर्ष्याः कृताक्षमाः सत्यः । 'परोत्कर्षाक्षमेर्ष्या स्यात्' इति लक्षणात् । तत्रान्तरे तस्मिन्ननीक्षणावसरे । 'क्लीबेऽन्तरं चावकाशे तादर्थ्येऽवसरेऽवधौ' इति वैजयन्ती । निःशङ्कं तदनीक्षणादेव विस्रब्धं यथा तथा समं युगपत्कटाक्षैरमुं हरिं जघ्नुः प्रजघ्नुः सरोषमद्राक्षुः ॥१६॥

 अथास्य पञ्चभिर्दिव्यास्त्रसंनिधानमाह-

 तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
 चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १७ ॥

 तस्येत्यादि । अतसीसूनेन क्षुमाकुसुमेन समानभासस्तुल्यकान्तेः । स्निग्धश्यामस्येत्यर्थः । 'अतसी स्यादुमा क्षुमा' इत्यमरः । तस्य हरेरेकबाहुः भ्राम्यदावर्तमानं मयूखावलीनां मण्डलं चक्रवालं यस्य तेन चक्रेण सुदर्शनेन स्फुरन्महानावर्तो” भ्रमो यस्य सः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः। यमुनाजलानामोघः पूर इव रेजे । चक्रं दधावित्यर्थः ॥ १७ ॥

 विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
 नित्यं हरेः संनिहिता निकामं कौमोदकी मोदयति स्म चेतः ॥१८॥

 विरोधिनामिति ॥ विरोधिनां वैरिणां विग्रहभेदे शरीरविदारणे दक्षा । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । क्वचित्क्वाप्यस्खलन्ती । सर्वत्राप्रतिहतवृत्तिरित्यर्थः । नित्यं संनिहिता अनपायिनी । अत एव मूर्ता मूर्तिमती शक्तिः सामर्थ्यमिव स्थितेत्युत्प्रेक्षा । कौमोदकी गदा हरेश्चेतो निकामं मोदयति स्म । स्वसंनिधानेनेति भावः ॥ १८॥

 न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
 अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दकोऽभूत्॥१९॥

 न केवलमिति ॥ अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तत्ता तां दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेर्नन्दको न, किंतु परेषां शत्रूणामत्यर्थमुद्वेजयिता भीषयिता सन् । अत एव नाम्नापि चन्द्रादिवन्नन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोद्वेजकत्वाच्च तस्यैव