ध्वजाग्रधामा ददृशेऽथ शौरेः संक्रान्तमतिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ॥२३॥
ध्वजेति ॥ अथ रथारोहणानन्तरं शौरेः कृष्णस्य ध्वजाग्रं धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टिमेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पन्नगारिर्गरुत्मान् फणावतः सर्पान् त्रासयितुं द्रावयितुं रसायास्तलं पातालं विविक्षन् । प्रवेष्टुमिच्छन्निवेत्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः । ददृशे दृष्टः । सोऽपि संनिहितोऽभूदित्यर्थः ॥ २३ ॥
यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥२४॥
यियासत इति ॥ यातुमिच्छतो यियासतः । यातेः सन्नन्ताल्लटः शत्रादेशः । तस्य हरेः संबन्धी महीं धरन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः। यदाह वामनः-'महीध्रादयो मूलविभुजादिदर्शनात्' इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । 'षिद्भिदादिभ्योऽङ्' (३।३।१०४)। तस्यां पटीयान् समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौघः समुद्रस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । 'सुप्सुपा-' इति समासः । अन्यान् शब्दान् शब्दान्तराणि । पूर्ववत्समासः । अन्तरयांचकार अन्तर्हितानि चकार । छादयामासेत्यर्थः । अन्तरशब्दादन्तर्धानार्थात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लिट् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे' इत्युभयत्राप्यमरः ॥ २४ ॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततोऽधः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २५ ॥
यत इति ॥ जगतां भर्ता धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । 'कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । स हरिर्यतो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धर्त्रा धारयित्रा । पूर्ववत्षष्टी । फणिना शेषेण महता भरेण आसमन्ताद्भुग्नस्य कुब्जीभूतस्य शिरःसहस्रस्य सहायके सहायकर्मणि । 'योपधाद्गुरूपोत्तमाद्वुञ्' (५।१।१३२) व्यग्राः त्वरमाणा भुजा यस्मिंस्तद्यथा तथा प्रसस्रे प्रसृतम् । भावे लिट् । हरिश्चचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ २५ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् २६
अथेति ॥ अथ हरिचलनानन्तरमुच्चकैरुन्नते तोरणे द्वारदारुणि सङ्गेन भङ्गस्तस्मादयेनावनम्रीकृतानि केतनानि यैस्तानि सैन्यानि । सोमस्यान्वयः संतानः तं सोमान्वयं हरिं सुनीतिभाजं सुष्टु नीतिमन्तं क्रियाः सामाद्युपायप्रयोगास्तासां फलानि हिरण्यभूमित्रादिलाभा इवान्वयुरन्वगच्छन् । यातेर्लङ् 'लङः शाकटायनस्य-' (३।४।१११) इति झेर्जुस् ॥ २६ ॥
पाठा०-१'धर्ता'. २ 'धर्ता धारयिता'.