पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
शिशुपालवधे

पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः । विरोधालंकारः । पयसां समूहं पयःपूरं मुहुर्वहन्ति स्म । चन्द्रकान्तनिप्यन्दैरिति भावः । वहेर्लिट् ‘वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौन्नत्यपयःपूरासंबन्धेऽपि तत्संबन्धोक्त्यातिशयोक्तिः ॥४४॥

 रतौ ह्रिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः ।
 बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः॥४५॥

 रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रतौ रतिकाले ह्रिया दीपान्निशाम्य निर्वाप्य । शमेर्मित्वाद्ध्रस्वादेशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रविष्टाभ्यः । 'जालं गवाक्ष आनायः' इति विश्वः । विदूरात् प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः “वैदूर्यं बालवायजम्' इति विश्वः । 'विदूराञ्ञ्यः' (४।३।८४) इति ञ्यप्रत्ययः । अत्र विदूरशब्दो बालवायस्यादेशः पर्यायो वा तत्रोपचारितो वा । तेन बालवायाद्गिरेरसौ प्रभवति न विदूरान्नगरात् । तत्र तु संस्क्रियत इत्याक्षेपः प्रयुक्तः । यदुक्तम्- 'बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रैति चेxयाज्जित्वरीव्रदुपाचरेत् ॥' इति तेषां कुड्येषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्त्या पैङ्गल्याद्बिडालेक्षणवद्भीषयन्ते इति भीषणाभ्यो भयंकराभ्यः । नन्द्यादित्वात्कर्तरि ल्युप्रत्यये टाप् । शशिद्युतिभ्यो बिभ्युर्भीताः । मौग्ध्यादिति भावः । विभेतेर्लिट् । अत्र लज्जावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चोत्पन्नमित्यनर्थोत्पत्तिरूपो विषमभेदः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना या स्याद्विपमालंकृतिर्मता ॥' इति लक्षणात् ॥ ४५ ॥

 यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
 चक्रुर्युवानः प्रतिविम्बिताङ्गाः सजीवचित्रा इव रनभित्तीः॥४६॥

 यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रान्तमूर्तयः सन्तो रत्नभित्तीः सजीवचित्राः सचेतनचित्रवतीरिव चकुरित्युत्प्रेक्षा ॥ ४६॥

 सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम् ।
 यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥४७॥

 सावर्ण्येति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रतिमागतानां प्रतिविम्बगतानां सावर्ण्यभाजाम् । तत्सावर्ण्यादगृहीतभेदानामित्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । अङ्गनानां स्मरापाण्डुतया लक्ष्यैर्विभिनवर्णत्वाद्भेदेन गृह्यमाणैरित्यर्थः । कपोलैर्मणिदर्पणानां स्फटिकमुकुराणां श्रीरिव श्रीः भेजे प्राप्ता इति निदर्शना । सा चोक्तसामान्यप्रसादलब्धेति तेनास्याः संकरः ॥४७॥

पाठा०-१ 'निशम्य' इत्येव पाठो वल्लभाङ्गीकृतः.