पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
शिशुपालवधे

विशालं पृथुलं महत्' इत्यमरः । 'वैः शालच्छङ्कटचौ' (५।२।२८) इति शालच्प्रत्ययः । गृहै रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासाद्विरोधालंकारः । 'विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः' इति काव्यप्रकाशलक्षणात् ॥ ५० ॥

 चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् ।
 मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥५१॥

 चिक्रंसयेति ॥ यस्यां पुरि निकेतनानां वेश्मनाम् । 'वेश्म सद्म निकेतनम्' इत्यमरः । कपोतान् पक्षिणः पालयन्तीति कपोतपाल्यो विटङ्कापरनामानः स्तम्भाग्रप्रसारिता दारुविशेषाः । 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । कर्मण्यणि ङीप् । तासु कृत्रिमपत्रिणां दारुमयपक्षिणां पङ्क्तेः । कर्मणि पष्टी । चिक्रंसया क्रमितुमिच्छया। जिघृक्षयेत्यर्थः । क्रमेः सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इत्यकारप्रत्यये टाप् । 'स्नुक्रमोरनात्मनेपदनिमित्ते' (७।२।३६) इतीडागमो न भवति । अत्र क्रमेर्वृत्यादिव्यतिरिक्तार्थेऽपि 'अनुपसर्गाद्वा' (१॥३।४३) इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवक्षिकस्य संभवात् । आयतमानतं वा निश्चलमङ्गं यस्य तं मार्जारं बिडालमपि । 'ओतुर्बिडालो मार्जारः' इत्यमरः । जनः कृत्रिमं क्रियया निवृत्तमेव मेने । न तु वास्तवमित्यर्थः । 'ड्वितः क्रिः' (३।३।८८) 'क्रेर्मन्नित्यम्' (वा०) इति मम्प्रत्ययः । अनेन कृत्रिमाकृत्रिमभेदो दुर्ग्रह इति शिल्पज्ञानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमाकृत्रिमेषु विपरीतमतिवर्णनाद्भ्राशान्तिमदलंकारः ॥५१॥

 क्षितिप्रतिष्ठोऽपि मुखारविन्दैवधूजनश्चन्द्रमधश्चकार ।
 अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ॥५२॥

 क्षितीति ॥ यस्यां पुरि वधूजनः क्षितौ प्रतिष्ठा यस्य स भूमिस्थितोऽपि चन्द्रम् । दिवि स्थितमिति भावः । तत्रापि मुखैरेवारविन्दैरधश्चकारेति विरोधः । स्वलावण्यमहिम्नाऽधरीचकारेति परिहाराद्विरोधालंकारः । अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा०) इति समासः । “द्विगुप्राप्तापन्ना-' (वा.) इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रासादशृङ्गाणि वृथा अध्यक्षदधिरोहति स्म । अनधिरुह्यैवाधःकरणादिति भावः । रोहतेर्लुङ् । 'शल इगुपधादनिटः क्सः' (३।१।४५) इति च्लेः क्सादेशः । अत्राधःकरणवाक्यार्थस्य श्लेषविरोधोपजीव्यवैयर्थं हेतुत्वात्संकीर्णः काव्यलिङ्गभेदः ॥ ५२ ॥

 रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
 यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः॥५३॥

 रम्या इति ॥ यस्यां पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवतीः । उत्क्षिप्तध्वजा इत्यर्थः । अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः । 'पताका वैजयन्त्यां च सौभाग्येऽध्वजेऽपि च', 'इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु' इत्युभयत्रापि विश्वः । विविक्ता विजना विमलाश्व इति

हेतो रागं वर्धयन्तीः । 'विविक्तौ पूतविजनौ' इत्युभयत्राप्यमरः । नमद्वलीका