पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
तृतीयः सर्गः ।

'उपान्वध्याङ्वसः' (१।४।४८) इति कर्मत्वम् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुप्रत्ययः । जनस्य याः संपदोऽभवन् ता मनसोऽप्यगम्याः । वाचामभूमय इति किमु वक्तव्यमिति भावः । गृहे गृहे कल्पवृक्षसंबन्धातिशयोक्त्या पौराणां देवेन्द्रभोगो व्यज्यते । इह कल्प इत्युपपदं स्वसंज्ञैकदेशो येषामिति व्याख्याने हिरण्यपूर्वं कशिपुमित्यादिवदवाच्यवचनदोषावकाशः ॥ ५९ ॥

 कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः ।
 यां रेवतीजानिरियेष हातुं न रौहिणेयो न च रोहिणीशः॥६॥

 कला इति ॥ सकलाः समग्राः कलाश्चतुःषष्टिविद्याः, षोडशभागांश्च दधानः । 'कला शिल्पे कालभेदे' इति, 'कला तु षोडशो भागः' इति चामरः । सुधयावलिप्तं सौधं तद्वत्सिताभिः स्वभाभिराशा दिश उद्भासयन रेवती ककुद्मि- कन्या, पूषकं भं च जाया यस्य स रेवतीजानिः । 'जायाया निङ् (५।४।१३४) इति समासान्तो निङादेशः । 'लोपो व्योर्वलि' (६।१।६६) इति यलोपः । रोहिण्या अपत्यं पुमान् रौहिणेयो बलभद्रः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। यां पुरी हातुं त्यक्तुं न इयेष नेच्छति स्म । लिट् । रोहिणीशश्चन्द्रश्च हातुं न इयेष । अत्र रौहिणेयरोहिणीशयोः परोत्कर्षावहत्वेन द्वयोः प्रकृतत्वाद्विशेष्यस्याश्लिष्टत्वाच्च केवलप्रकृतविषया तुल्ययोगिता । गतमन्यत् ॥ ६० ॥

 बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।
 शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥ ६१ ॥

 बाणेति ॥ यत्र पुरि बाणाहवे बाणासुरयुद्धे व्याहता क्षयं नीता शंभुशक्तिर्येन तस्य हरविजयिनो जनार्दनस्य कृष्णस्यासत्तिं प्रत्यासत्तिमासाद्य । पुत्रत्वं प्राप्येत्यर्थः । शरीरिणा विग्रहवता । न त्वनङ्गेनेति भावः । जेतार एव जैत्रा जयशीलाः । तृन्नन्तात्प्रज्ञादित्वादण्प्रत्ययः । ते शरा यस्य तेन मकरध्वजेन कामेन । प्रद्युम्नरूपेणेति भावः । निःशङ्कं निर्भीकमूषे उषितम् । 'वस निवासे' भावे लिट् । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । 'शङ्का वितर्कभययोः' इति विश्वः । अत्र शंभुशक्तिव्याघातपदार्थस्य विशेषणगत्या निःशङ्कनि वासहेतुत्वोक्तेः काव्यलिङ्गभेदः । पुरा किल भगवान् भक्तवत्सलो धूर्जटिर्बाण- प्रेम्णा बाणाभियोधिनं हरिमभियुज्य निर्जित इति पौराणिकाः कथयन्ति ॥ ६१ ।।

 निषेव्यमाणेन शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय ।
 उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥६२॥

 निषेव्यमाणेनेति ॥ शिवैर्मरुद्भिर्मन्दमारुतैः, अन्यत्र शिवै रुदैः, मरुद्भिः मरुद्गणैश्च चिराय निषेव्यमाणेन हरिणा श्रीकृष्णेन, शक्रेण चाध्यास्यमाना अधिष्टीयमाना उद्रश्मीनां रत्नाङ्कुराणां धाम्नि स्थाने । एकत्र रत्नाकरत्वादन्यत्र रत्नसानुत्वाच्चेति भावः। सिन्धौ स्थितेति शेषः। या पू: मेरौ स्थिताम् अमरा यस्यां सन्तीत्यमरावतीमिन्द्रनगरीम् । 'मतौ बह्वचोऽनजिरा-' (६।३।११९) इति दीर्घः ।

पाठा०-१०प्यभूमिः वाचामभूमिः'.

-