श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः॥६६॥
श्लिष्यद्भिरिति ॥ अन्योन्येषां मुखाग्रेषु सङ्गेन स्खलन्तः खलीनाः कविका यस्मिन्कर्मणि तद्यथा तथा। 'कविका तु खलीनोऽस्त्री' इत्यमरः । श्लिष्यद्भिः संघृष्यद्भिः विलोलैः मुहुरुच्चलद्भिः हरिभिस्तुरंगैः करणैः । अश्वान् वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक्रमुः निर्जग्मुः। अत्र स्वभावोत्यातिशयोक्तेः संकरः ॥ ६६ ॥
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६७ ॥
निरन्तराल इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण कर्त्रा निरन्तरालेऽपि पूर्वं स्वेनैवातिसंकटेऽपि पथि संप्रति दूरं दूरत एव विमुच्यमाने सति । एकत्र दीपभयादन्यत्र द्विपभयाच्चेत्यर्थः। तेजोमहद्भिर्बलाधिकैः, प्रभासंपन्नैश्च । 'तेजो बलं प्रभा तेजः' इति विश्वः। द्विपैर्दीपैरिवासंबाधमसंकीर्णमयांबभूवे जग्मे । न त्वश्वैरिव कृच्छ्रादिति भावः। 'अय गतौ' भावे लिट् 'दयायासश्च' (३।१॥३७) इत्याम्प्रत्ययः । स्वतेजसैव दूरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात् पथ इव तमसो दीपागमनात् प्राकृतप्राणिवर्गेण निरन्तरालत्वं पश्चान्मुच्यमानत्वं च न संभवतीत्युपमानोपमेययोवैरूप्यं स्यात् । तृतीयान्तपाठे तमसः प्राणिवर्गोपमानत्वे तत्सारूप्यसाकल्यात् स एव साधीयानित्यालंकारिकाणां पन्थाः ॥ ६७ ॥
शनैरनीयन्त रयात्पतन्तो रथाः क्षितिं हस्तिनखादखेदैः।
सयत्नसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरंगैः ॥ ६८ ॥
शनैरिति ॥ रयात्पतन्तो धावन्तो रथाः सयत्नैः सूतैः सारथिभिः । 'सूतः क्षत्ता च सारथिः' इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः। 'किरणप्रग्रहौ रश्मी' इत्यमरः । तैर्भुग्नेषु प्रह्वेषु ग्रीवाणामग्रेषु संसक्ता युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैरत एवाखेदैरश्रमैस्तुरंगैः। हस्तिनखात् । हस्तिनखः पूर्द्वारि मृत्कूटः । 'कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्' इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोक्तिः । यथावद्वस्तुवर्णनात् ॥ ६८ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्कामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥६९॥
बलोर्मिभिरिति ॥ बलान्यूर्मय इव तैर्बलोर्मिभिः वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एव हीयमाना अपरिच्यमाना रथ्या भुजेव यस्यास्तस्याः अत एवास्याः पुरो द्वारवत्याश्चक्रपाणौ कृष्णे निष्कामति निर्गच्छति सति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति
भावः। द्वारवतीशब्दस्य संज्ञात्वात् 'स्वतलोर्गुणवचनस्य' (वा०) इति न पुंवद्भावः ।