पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
तृतीयः सर्गः ।

 पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
 क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥७३॥

 पीत्वेति ॥ जलानां निधिना समुद्रेण गर्ध एव गार्ध्यम् । औपम्यादिवच्चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तदतिमात्रमतिगार्ध्यं तस्मात् । तृष्णाभरादित्यर्थः । गृध्नोः पुनरोर्गुणः 'वान्तो यि प्रत्यये' (६११७९) इति गार्धव्यमिति स्यात् । पीत्वा । क्षेपणक्रियापेक्षया पूर्वकालता । अथ वृद्धिं गते आत्मनि देहे । चन्द्रोदये समुद्रस्य वृद्धिरित्यागमः । नैव मान्तीरमान्तीः । अतिरिच्यमाना इत्यर्थः । मातेः शतरि ङीप् । 'आच्छीनद्योर्नुम्' (७।१८०) क्षिप्ता उद्गीर्णातितृष्णयोत्कटं पीत्वा अन्तरमानाद्वहिरुद्वान्ता इत्यर्थः । इन्दो रुचो मरीचीरिवेत्युत्प्रेक्षा । स हरिरधिवेलमधितीरम् । 'वेला कूलविकारयोः' इति विश्वः । मुक्तावलीराकलयांचकाराकलयामास । कलतिः कामधेनुः ॥ ७३ ॥

 साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।'
 तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श ॥७४॥

 साटोपमिति ॥ अमी मेघाः साटोपं ससंभ्रमम् । 'संभ्रमाटोपसंरम्भाः' इति यादवः । अनिशं नदन्तो गर्जन्तो यैस्तोयैरम्भोभिरुर्वीं समन्ततः प्लावयिष्यन्ति तान्यम्भांसि पयोधेरेकदेशादेककोणान्निभृतं निश्चलं यथा तथा पिबतो मेघान् स हरिददर्श । एतेन समुद्रस्यापरिच्छिन्नरूपत्वं व्यज्यते ॥ ७४ ॥

 उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
 आलोकयामास हरिः पतन्तीनदीः स्मृतीर्वेदमिवाम्बुराशिम् ७५

 उद्धृत्येति ॥ मुनीन्द्रैस्ततो वेदावेदार्थमिव मेघैस्ततोऽम्बुराशेरेव तोयमुद्धृत्य संप्रणीताः कृता अम्बुराशिं पतन्तीः प्रविशन्तीनदीर्वेदं पतन्तीः स्मृतीर्मन्वादिसंहिता इव हरिरालोकयामास । श्रुतिमूलत्वेनैव प्रामाण्यात्स्मृतीनाम् । तत्संवाद एव तत्संप्रवेशः । अनेकवेयमुपमा ॥ ७५ ॥

 विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः ।
 तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ७६

 विक्रीयेति ॥ दिक्षु भवानि दिश्यानि । दिगन्तरानीतानीत्यर्थः । 'दिगादिभ्यो यत्' (४।३।५४) उरूणि महान्ति धनानि नानाद्रव्याणि विक्रीय मूल्येन दत्त्वोत्तमलाभं द्वैगुण्यादिकं भजन्तीति तानुत्तमलाभभाजः । तत्रत्यं द्वैप्यमित्यर्थः । 'अव्ययात्त्यप्' (४।२।१०४)। अफल्गु सारवत् । 'फल्गु तुच्छमसारं च' इति यादवः । भाण्डं मूलधनम् । पण्यद्रव्यमित्यर्थः । 'वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयोः' इति वैजयन्ती । तरीषु नौषु । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । 'अविस्तरिस्तन्त्रिः-' इत्यौणादिक इकारप्रत्ययः । आवपत आदधतः । वपतेः शतृप्रत्ययः । द्वैप्यान् समुद्रद्वीपवासिनः । 'द्वीपादनुसमुद्रं यञ्' (४।३।१०) इति


पाठा०-१ 'अवितृस्तृतन्त्रिभ्य ई:'.