पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
शिशुपालवधे

यञ्प्रत्ययः। संयात्रा संभूय यात्रा सा प्रयोजनमेषां तान् सांयात्रिकान् पोतवणिजः। 'सांयात्रिकः पोतवणिक्' इत्यमरः । 'प्रयोजनम्' (५।१।१०९) इति ठक् । असौ हरिरभ्यनन्दत् ॥ ७६ ॥

 उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
 पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोचिक्षिपिरे फणीन्द्राः७७

 उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादुत्पित्सव उत्पतितुमिच्छवः । पततेः सन्नन्तादुप्रत्ययः । 'सनि मीमा-' (७४।५४) इत्यादिना इसादेशः। 'अत्र लोपोऽभ्यासस्य' (७।४।५८) इत्यभ्यासलोपः । फणीन्द्राः सर्पा भक्त्या गरुडध्वजस्य हरेर्ध्वजानिव गरीयसाऽतिमहता निःश्वसितानिलेन मुखमारुतेन पयांस्युच्चैरुच्चिक्षिपिरे उत्क्षिप्तवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम् ॥७७॥

 तमागतं वीक्ष्य युगान्तवन्धुमुत्सङ्गशय्याशयमम्बुराशिः।
 प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ७८ ॥

 तमिति ॥ अम्बुराशिः युगान्तबन्धुम् । आपद्धन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्यां शेत इति तथोक्तम् । 'अधिकरणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता उत्तुङ्गास्तरङ्गा एव बाहवो यस्य सः सन् प्रत्युज्जगाम संमेलनार्थमागतवानिवेति क्रियास्वरूपोत्प्रेक्षा ॥ ७८ ॥

 उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः स्वेदलवान् ममार्ज।
 तस्यानुवेलं व्रजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ॥७९॥

 उत्सङ्गितेति ॥ उत्सङ्गिनः संसर्गिणः कृता उत्सङ्गिताः । 'तत्करोति-' (ग०) इति ण्यन्तात् कर्मणि क्तः । उत्सङ्गिता अम्भःकणा येनेति 'शेषाद्विभाषा' (५।४।१५४) इति कप् । एलालतानामास्फालनेन संघर्षणेन लब्धगन्धः एवं शिशिरसुरभिरुदन्वतो नभस्वान् समुद्रस्य वायुरधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः। व्रजतस्तस्य हरेः स्वेदलवाननुवेलं प्रतिक्षणम् । यथार्थेऽव्ययीभावः । ममार्ज जहार । 'वेला कूले च जलधेर्वेला तीरविकारयोः' इति विश्वः। काव्यलिङ्गम् ॥७९॥

 उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
 आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥८॥

 उत्तालेति ॥ चमूषु चरन्तीति चमूचराः सैनिकाः । 'चरेष्टः' (३।२।१६) इति टप्रत्ययः । तैरुत्तालेषून्नतेषु तालीवनेषु संप्रवृत्तेन समीरणेन मारुतेन सीमन्तिताः सीमन्तिन्यः कृताः । सीमन्तशब्दान्मत्वन्तात् 'तत्करोति-' (ग०) इति ण्यन्तात् कर्मणि क्तः । णाविष्टवद्भावे विन्मतोलुक् । ताः केतक्यो येषु ते तथोक्ताः । 'नद्यृतश्च' (५।४।१५३) इति कप् । लवणसिन्धोरिमा लावणसैन्धव्यः । तस्येदम्' (४।३।१२०) इत्यण् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य -' (७।३।१९) इत्युभयपदवृद्धिः । तासां कच्छभुवामनूपभूमीनाम् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः'

इत्यमरः । प्रदेशा देशा आसेदिरे प्राप्ताः । सीदतेः कर्मणि लिट् । अत्र स्वभावोक्तिरनुप्रासश्चालंकारौ । ओजःश्लेषसौशब्दसौकुमार्याद्यनेकगुणसंपत्तिः स्पष्टा ॥ ८॥