पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
तृतीयः सर्गः ।

 लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
 आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥८१॥

 लवङ्गेति ॥ लवङ्गमालाभिर्लवङ्गकुसुममाल्यैः कलितावतंसाः कृतभूषणाः । नारिकेलान्तरित्यव्ययम् । नारिकेलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे 'ऋक्पूर्-' (५।४।७४) इत्यादिना समासान्तप्रसङ्गात् । पिबन्तः । आस्वादिता भक्षिता आर्द्रक्रमुका आईपूगीफलानि यैस्ते । 'घोण्टा तु पूगः क्रमुकः' इत्यमरः । ते चमूचराः समुद्रादभ्यागतस्यातिथेः प्रतिपत्तिं गौरवं सत्कारमीयुः । 'प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च' इति विश्वः । अत्राभ्यागतप्रतिपत्तिप्राप्तेर्विशेषणगत्या अवतंसकलनादिपदार्थहेतुत्वात् काव्यलिङ्गमलङ्कारः । तेन समुद्रचमूचराणां गृहस्थाभ्यागतौपम्यप्रतीतेरलंकारेणालंकारध्वनिः ॥ ८१ ॥

 तुरगशताकुलस्य परितः परमेकतुरंगजन्मनः
  प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
 परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
  श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥ ८२॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्च्यङ्के पुरीप्रस्थानो
नाम तृतीयः सर्गः ॥३॥

 तुरगेति ॥ परितः तुरगशतैराकुलस्य । अपरिमिताश्वस्येत्यर्थः । प्रतिपथं प्रतिमार्गम् । यथार्थेऽव्ययीभाव समासान्तः । प्रमथिताः क्षुण्णा भूभृतो राजानो, गिरयश्च येन तस्य । न तु स्वयं केनापि मथितस्येति भावः । सततं धृता श्रीः शोभा, रमा च येन तस्य धृतश्रियः पुरोऽग्रे, नगराद्वा परिचलतः परिगच्छतः बलो रामस्तस्यानुजस्य हरेबलस्य सैन्यस्य । 'बलं सैन्ये बलो रामे' इत्युभयत्रापि शाश्वतः । परं केवलमेकस्यैव तुरंगस्य जन्म जन्ममात्रं यस्मात्तस्यैकतुरंगजन्मनः । एकोऽपि जात एव न त्वस्तीति भावः । महीभृता मन्दराद्रिणा, राज्ञा च मथितस्य । न तु स्वयं कस्यापि मन्थिता । सततं विगतश्रियः । उत्पत्त्यनन्तरमेवास्या हरिस्त्रीकरणादिति भावः । जलनिधेश्च तदा प्रस्थानसमये महदन्तरं दूरगमनादिव्यवधानं, उक्तरीत्या महत्तारतम्यं चाभवत् । अत्रोपमेयस्य हरिबलस्योपमानाज्जलधेराधिक्यवर्णनाव्यतिरेकालंकारः । *पञ्चकावली वृत्तम् । 'नजभजजा जरौ

पाठा०-१ 'सलिल'. * एक एव श्लोकोऽयं छन्दोग्रन्थेषु त्वन्यान्यछन्दसामुदाहरणत्वेन प्रत्युद्धृतो दरीदृश्यते, तदिदं कवीनां छन्दोविषयकमतप्राचुर्यमध्येतॄणां चेतश्चमत्कृत्यर्धमत्रोपाहियते-वृत्तरत्नाकरस्य नारायणभट्टीव्याख्यायाम्-"प्रकृतौ-'नजभजजजरैधृतश्रीः' । यथा माघे-'तुरगशता०' । निःसप्तसु यतिः ।" छन्दोमञ्जर्याम् तथा प्राकृत- पिङ्गलसूत्रेऽपि च-"नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः । यथा-'तुरगशता०' इति माघे ।" छन्दःशास्त्रे हलायुधकृतटीकायां-"कृतौ-'शशिवदना नूजौ भूजौ ज् जरौ रुद्रदिशः ॥८॥१९॥ पञ्चकावली इति केचित् , तत्रोदाहरणम् 'तुरगशता०'-"