पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
शिशुपालवधे

मिव च भुजानामग्राणि येषां तानत एवानन्तानसंख्यान् रुद्रानिव स्थितानित्युप्रेक्षा । उर्वीरुहो वृक्षान् धारयन्तमुद्वहन्तम् ॥ ७ ॥

 विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव लोध्रगौरीः ।
 नवोलपालंकृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥ ८॥

 विलम्बीति ॥ विलम्बिनो नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासां ताः । लोध्रेण लोध्ररजसा गौरीरवदाताः । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपमान्तरमाह-नवा उलपा बल्वजतृणानि । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः। तैरलंकृतानां सैकतानामाभेवाभा यासां ताः । कुतः । शुचीः शुद्धाः शैवलवतीरपो दधानम् । शुचित्वशैवलत्वाभ्यां बिम्बप्रतिबिम्बभावेनोपमाद्वयम् ॥ ८॥

 राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
 कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ९॥

 राजीवेति ॥ पुनः राजीवराजीनां पद्मपङक्तीनां वशा अधीना लोलाश्चला भुंगा यस्मिंस्तं राजीवराजीवशलोलभृङ्गं तरूणां ततिभिः सङ्घैरुष्णमातपं मुष्णन्तं हरन्तं कान्ता रम्या अलकान्ताश्चूर्णकुन्तलाग्राणि यासां ताः कान्तालकान्ताः । "अलकाश्चूर्णकुन्तलाः' इत्यमरः । सुराणां ललनाः स्त्रियोऽप्सरसो रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम् ॥ ९ ॥

 नन्वल्पीयानयं कश्चिदैवतको नाम शिलोच्चयः कथमियद्वर्ण्यत इति शङ्कां निरस्यति-

 मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः।
 भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ १०॥

 मुद इति ॥ मुरारेर्मुदे संतोषायामरैः कर्तृभिः सुमेरोः शृङ्गैः करणैरानीयोपचितस्य वर्धितस्य । आनीतैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामर्थादानयनकर्मत्वम् । यस्य शैलस्योच्छ्रायः औन्नत्यं, सौन्दर्यं च तयोर्गुणा उत्कर्षा उद्दामगिरां प्रगल्भवाचां कवीनां मृषा उद्यन्त इति मृषोद्याः मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसं भवादिति भावः । 'राजसूयसूर्यमृषोद्य-'(३।१।११४) इत्यादिना वदेः क्यबन्तो निपातः । उत्कृष्टः श्राय उच्छ्राय इति घञन्तेनोपसर्गस्य समासः । न तूपसृष्टाद्धञ्प्रत्ययः । “श्रिणीभुवोऽनुपसर्गे' (३।३।२४) इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिः ॥ १० ॥

 यतः परार्ध्यानि भृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि ।
 आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ११॥

 यत इति ॥ लोकः परार्ध्यानि श्रेष्ठानि, अनूनैर्महद्भिः, भूरिभिः प्रभूतैः । 'प्रभूतं प्रचुरं प्राज्यं भूरि' इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । 'प्रस्थोऽस्त्री सानुमा-