पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
चतुर्थः सर्गः ।

'इगुपध' (३।१।१३५) इत्यादिना 'आकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन' इति वचनात् । दारुकः कृष्णसारथिरुच्चा उन्नता रणन्तः शब्दायमानाः पक्षिगणा यासु ता रणत्पक्षिगणास्तटीर्दधानं तं पूर्वोक्तं । धरतीति धरं पर्वतम् । पचाद्यच् । 'अहार्यधरपर्वताः' इत्यमरः । द्रष्टुमुत्कमुत्सुकम् । 'उत्क उन्मनाः' (५।२।८०) इति निपातः । उत्कंधरमौत्सुक्यादुन्नमितकंधरं शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । नहीङ्गितज्ञोऽवसरेऽवसीदतीति भावः ॥ १८ ॥

 इतःप्रभृति यमकानन्तरश्लोकेषु वसन्ततिलकावृत्तं नियमेनाह-

  आच्छादितायतदिगम्बरमुच्चकैर्गा-
   माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
  मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेन-
   मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥

 आच्छादितेति ॥ आच्छादितान्यावृतानि आयतानि दीर्घाणि दिशोऽम्बरं खं च दिगम्बराणि येन तम् , अन्यत्राच्छादितं वसितमायतं दिगेवाम्बरं वासो येन तं तथोक्तम् । उच्चकैरुन्नतां गां भुवमाक्रम्य व्याप्य संस्थितम् । तथोदग्राण्युन्नतानि विशालानि च शृङ्गाणि शिखराणि यस्य तम् । अन्यत्रोदने विशाले शृङ्गे विषाणे यस्य तं उच्चकैरुन्नतं गां वृषभमाक्रम्य अधिष्ठाय संस्थितमित्यर्थः । 'शृङ्गं विषाणे शिखरे' इति, 'गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः । अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥' इति च विश्वः । मूर्ध्नि शिखरे । अन्यत्र शिरसि स्फुरन्ती तुहिनदीधितेरिन्दोः कोटि: रश्मिः, कला च यस्य तमेनं नगेशं नगश्रेष्ठं रैवतकं कैलासनायकमीश्वरं चोद्वीक्ष्य को न विस्मयते । सर्वोऽपि विस्मयत इत्यर्थः । नेयं तुल्ययोगिता । प्रकृताप्रकृतविषये तदनुत्थानात् । नापि समासोक्तिः । तस्या विशेषणसाम्यजीवित्वात् । नापि श्लेषः । उभयश्लेषे विशेष्यश्लेषयोगात् । तस्मात्प्राकरणिकार्थमात्रपर्यवसिताभिधाव्यापारेणापि शब्देनार्थान्तरधीकृद्ध्व्- -रित्याहुः । तदुक्तं काव्यप्रकाशे–'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥' इति । वृत्तलक्षणं तु-'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ १९ ॥

 उदयति विततोर्ध्वररश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
 वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ २० ॥

 उदयतीति ॥ वितता ऊर्ध्वाश्च रश्मिरज्जवो रश्मयो रज्जव इव यस्य तस्मिन् विततोर्ध्वररश्मिरज्जौ अहिमरुचौ सूर्ये उदयत्युदयमाने । 'अय गतौ' इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोलरर्ध्वरश्मिरज्जौ हिमधाम्नि चन्द्रे चास्तं यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरिर्विलम्बिना विशेष लम्ब-

१ 'इट किट कटी गतौ' इत्यत्र केचिदीकारप्रश्लेषं वर्णयन्ति इति, अनेनैव श्लोकेन

कविना 'घण्टामाघः' इति नाम लब्धम् , इति च वल्लभदेवः.