पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
चतुर्थः सर्गः ।

 वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
 पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतवातवृतैर्व्रतयः ॥ ३५ ॥

 वनस्पतीति ॥ अत्राद्रौ वनस्पतयो वृक्षाः । 'वनस्पतिर्वृक्षमात्रे विनापुष्पफलद्रुमे' इति विश्वः । तेषां स्कन्धेषु प्रकाण्डेषु, अंसेषु च निषण्णाः सक्ता बालप्रवाला बालपल्लवा हस्ता इव यासां तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां व्रातेन वृन्देन वृतैश्छन्नैः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि, कज्जलानि च यैस्तैर्वा । तैरिव स्थितरित्युत्प्रेक्षा । इवार्थे वाशब्दः तद्वदुत्प्रेक्षायां चोक्तः । 'लोचको मांसपिण्डे स्यादक्षितारे च कज्जले' इति विश्वः । पुष्पैरीक्षणैरिव पुष्पेक्षणैरुपलक्षिता व्रतत्यो लताः । प्रमदा इव लक्ष्यन्त इति शेषः । 'न प्रसिद्धे क्रियाध्याहारदोषः' इत्याह वामनः । लिङ्गाध्याहारवदिति ॥ ३५॥

 विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।
 भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥

 विहगा इति ॥ कदम्बैः सुरभिः सुगन्धिस्तस्मिन् कदम्बसुरभाविहाद्रौ विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणं अनेके बहुविधा लया विच्छेदा यस्मिन्कर्मणि तद्यथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारयन्ति । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । किंच धूतानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन स धूतनवनीपवनः । 'नीपप्रियककदम्बास्तु हलिप्रियः' इत्यमरः । अयं पवनो मुहुरभ्रं मेघं भ्रमयमुपैति । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ ३६॥ क्क्विद्वद्भिरागमपरैर्विवृतं कथंचि-    च्छ्रुत्वापि दुर्गहमनिश्चितधीभिरन्यैः ।   श्रेयान् द्विजातिरिव हन्तुमघानि दक्षं    गूढार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ३७ ॥</poem>}}  विद्वद्भिरिति ॥ एषोऽद्रिः श्रेयान् श्रेष्ठः द्विजातिर्ब्राह्मण इव आगमो निधि- कल्पो, मन्त्रशास्त्रं च स एव परं प्रधानं येषां तैरागमपरैर्विद्वद्भिर्निधीनां मन्त्राणां च साधनविधानज्ञैः कथंचिद्विवृतं स्वरूपतः प्रकाशितम् । नास्ति निश्चिता इदमित्थमिति निश्चयात्मिका धीर्येषां तैरनिश्चितधीभिरन्यैरशास्त्रज्ञैः श्रुत्वाऽपि इह निधिरस्ति, ईदृङ्महिमा असौ मन्त्र इति चाप्तमुखादाकर्ण्यापि दुर्ग्रहं दुःसाधनम् ।

अघानि दुःखान्येनांसि च हन्तुं दक्षं समर्थम् । 'दुःखैनोव्यसनेष्वधम्' इति वैजयन्ती । गूढः संवृतोऽर्थो धनं, अभिधेयं च यस्मिंस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं बिभर्ति । द्विजातिर्मन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः ॥ ३७॥