पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
चतुर्थः सर्गः ।

  भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो-
   रुच्चावचैरुपगतेषु सहस्रसंख्याम् ।
  दोषापि नूनमहिमांशुरसौ किलेति
   व्याकोशकोकनदतां दधते नलिन्यः ॥ ४६॥

 भिन्नेष्विति ॥ इहाद्राविन्दोः किरणेषु उदञ्चश्चावाञ्चश्च तैरुच्चावचैः । अनेकविधैरित्यर्थः । 'उच्चावचं नैकभेदम्' इत्यमरः । मयूरव्यंसकादिषूच्चोच्चनीचाच्पराञ्चोञ्चावर्चकिंचनाकुतोभयानीति तत्पुरुषे निपातनात्साधुः । रत्नकिरणैर्भिन्नेषु मिश्रेषु अत एव सहस्रसंख्यामुपगतेषु सत्सु । नलिन्यः पद्मिन्यः । 'नलं पद्मे नलं तृणम्' इति शाश्वतः । असौ प्रकाशमानोऽहिमांशुः । किलेति । सहस्रकिरणत्वात् सूर्य एवेति संभावनाबुद्ध्येत्यर्थः । 'वार्तासंभाव्ययोः किल' इत्यमरः । दोषापि रात्रावपि । सप्तम्यर्थेऽव्ययम् । 'दिवाह्वीत्यथ दोषा च नक्तं च रजनौ' इत्यमरः । व्याकोशकोकनदतां विकचपद्मतां दधते स्वीकुर्वन्ति । नूनमित्युत्प्रेक्षायाम् । 'अथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदम्' इति, 'व्याकोशविकचस्फुटाः' इति चामरः । इह देवभूमित्वान्नित्यपद्मा नलिन्य इति भावः । इह नलिनीनां दोषातनविकासासंबन्धेऽपि तत्संबन्धरूपयातिशयोक्त्या तस्येन्दावर्कभ्रान्तिनिमित्तोत्प्रेक्षया भ्रान्तिमदलंकारो व्यज्यते ॥ ४६॥

 अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
 अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ४७

अपशङ्कमिति ॥ अपशङ्कं निःशङ्कमङ्कपरिवर्तनेषूत्सङ्गलुण्ठनेषूचिताः परिचिताः पतिं भर्तारमुपैतुं पुरोऽग्रे चलिताः प्रयाता आत्मजाः, स्वसंभवा दुहितृश्च निम्नगा नदीः करुणेन दीनेन पत्रिणां पक्षिणां विरुतेन क्रोशनेन निमित्तेनैषोऽद्रिर्वत्सलतया वात्सल्येन । स्नेहेनेत्यर्थः । श्रीमान् स्निग्धस्तु वत्सलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' (५।२।९८) इति लच्प्रत्ययः । अनुरोदितीवानुक्रोशतीवेत्युत्प्रेक्षा । 'रुदश्च पञ्चभ्यः' (७३।९८) इति गुणः । 'रुदादिभ्यः सार्वधातुके' (७।२७६) इतीट् ॥ ४७ ॥

 मधुकरविटपानमितास्तरुपङ्क्तीबिभ्रतोऽस्य विटपानमिताः ।
 परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४८॥

 मधुकरेति ॥ मधुकरा एव विटास्तेषां पानं चुम्बनमिताः प्राप्ताः । इणः कर्तरि क्तः । विटपैः शाखाविस्तारैरानमिताः विटपानमिताः । विस्तारो विटपोs- स्त्रियाम्' इत्यमरः । तरुपङ्क्तीर्बिभ्रतोऽस्याद्रेः रोधो नितम्बो गलता पतता परिपाकेण पिशङ्गीनां लतानां रजः पुष्परेणुः तेन परिपाकपिशङ्गलतारजसा कपिशं पिशङ्गं चकास्ति । मात्रावृत्तिष्वियमार्यागीतिरष्टगणा । 'अर्धे वसुगण आर्यागीतिः' इति पिङ्गलनागः (३१)॥४८॥