प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः।
संलक्ष्यते विविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥ ४९ ॥
प्राग्भागत इति ॥ इहाद्रौ प्राग्भागत ऊर्ध्वप्रदेशादुपत्यकास्वधःप्रदेशेषु । 'उपत्यकाद्रेरासन्ना' इत्यमरः । 'उपाधिभ्याम्-' (५।२।३४) इत्यादिनोपशब्दा. त्यकन्प्रत्ययः । पतत् शृङ्गारः सिन्दूरादिमण्डनमस्य संजातः शृङ्गारितः । 'शृङ्गारः सुरते नाट्ये रसे दिग्गजमण्डने' इति विश्वः । आयतो दीर्घः तस्य महेभकरस्याभेवाभा यस्य तत् विविधरत्नानां करैरंशुभिरनुविद्धमनुरञ्जितमिदमम्भ ऊर्ध्वप्रसारितं यत् सुराधिपचापमिन्द्रधनुस्तद्वच्चारु संलक्ष्यते । अत्रेन्द्रचापस्योर्ध्वत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । अभूतोपमेति मतान्तरम् । तिरोहितविवक्षायां तूपमानस्य प्रसिद्धत्वादुपमैवेयम् ॥ ४९ ॥
दधति च विकसद्विचित्रकल्प-
द्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥५०॥
दधतीति ॥ किं चेति चार्थः । अमुष्याद्रेरेताः शिखराणि शृङ्गाण्येव शिखाः केशपाश्यः । 'शिखा चूडा केशपाशी' इत्यमरः । विकसद्भिर्विचित्रै र्नानावर्णैः कल्पद्रुमकुसुमैरभिगुम्फितान् ग्रथितानिव स्थितानित्युत्प्रेक्षा । अलघूनि विलम्बीनि, लम्बमानानि च पिच्छान्येव दामानि स्रजो येषु तान् शिखिनः केकिन एव शेखरानापीडान् क्षणं दधतीव । 'शिखावलः शिखी केकी' इति, 'शिखास्नापीडशेखराः' इति चामरः । अत्र कुसुमगुम्फेनोत्प्रेक्षालिङ्गेन पिच्छादीनां दामादिरूपकसिद्धिस्तदुत्थापिता चोत्प्रेक्षेति संकरः । पुष्पिताग्रा वृत्तमुक्तम् ॥ ५० ॥
सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः।
नासेवन्ते रसवन्न नवरतममन्दरागतामरसदृशः ॥५१॥
सवधूका इति ॥ अस्मिन्नद्रौ अवरे न भवन्तीत्यनवराः श्रेष्ठा अनवरतमाः, श्रेष्ठतमाश्च मन्दरागतैरमरैः सदृशः, सरूपाश्च अनवरतममन्दरागतामरसदृशः अमन्दरागाण्यतिरक्तानि तामरसानि पङ्केरुहाणीव दृशो येषां तेऽमन्दरागतामरसदृशो रक्तनेत्राः । 'पङ्केरुहं तामरसम्' इत्यमरः । सुखिनो भोगिनः सहवधूभिः सवधूकाः सन्तः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । 'नद्यृतश्च' (५।४।१५३) इति कप् । रसवत् सानुरागम् । 'गुणे रागे द्रवे रसः' इत्यमरः ।
नवरतं नूतनसुरतं नासेवन्त इति न, किंत्वासेवन्त एवेत्यर्थः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । विशिष्टसुरतानां सेवनस्य सामान्यतः प्रसक्तेः । उपमालंकारः । गतेयमार्यागीतिः ॥