पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
शिशुपालवधे

 छायामिति ॥ जनानां समूहा जनताः । 'ग्रामजनबन्धुसहायेभ्यस्तल्' (४।२।४३)।तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनी छायां जगृहिरे । वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथा हि-सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमानम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किं त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १४ ॥

  अग्रे गतेन वसतिं परिगृह्य
   रम्यामापात्यसैनिकनिराकरणाकुलेन ।
  यान्तोऽन्यतः प्लुतकृतस्वरमाशु
   दूरादुब्दाहुना जुहुविरे मुहुरात्मवर्ग्याः ॥ १५ ॥

 अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्यां वसतिं निवासम् । 'वहिवस्यर्तिभ्यश्च' (उ० ५००) इति वसेरौणादिकोऽतिप्रत्ययः । परिगृह्यापतन्तीत्यापात्याः स्वयमाक्रमितुमागच्छन्तः । 'भव्यगेय-' (३।४।६८) इत्यादिना कर्तरि ण्यदन्तो निपातः । तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यग्रेण उद्वाहुनोद्यतहस्तेन । केनचिदिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवर्ग्याः स्वयूथ्याः प्लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । 'दूराद्भूते च' (८।२।८४) इति दूरादाह्वाने प्लुतविधानादिति भावः । आशु दूरान्मुहुराजुहुविरे आहूताः । ह्वयतेराङ्पूर्वात्कर्मणि लिट् 'अभ्यस्तस्य च' (६।१।३३) इति संप्रसारणे द्विर्वचनमुवङादेशश्च ॥ १५ ॥

  सिक्ता इवामृतरसेन मुहुर्जनानां
   क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
  शाखावसक्तवसनाभरणाभिरामाः
   कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥

 सिक्ता इति ॥ अमृतरसेन सिक्ता इवेत्युत्प्रेक्षा । मुहुर्जनानां क्लान्तिच्छिदः श्रमहराः । कल्पद्रुमवदमृतसेकाभावादपि तद्वदाह्लादका इति भावः । शाखास्ववसक्तैर्लग्नैः वसनैराभरणैश्चाभिरामाः । एकत्र सेनास्थपितैः, अन्यत्र स्वप्रसूतैरिति भावः । वनवनस्पतयो वनवृक्षा विचित्रफलैर्वस्त्राभरणाद्यनेकफलयुक्तैः कल्पद्रुमैः । तत्रत्यैरिति शेषः । सह तदानीं विरेजुः । तद्वद्विरेजुरित्यर्थः । सहेति सादृश्ये । 'सह साकल्यसादृश्ययोगपद्यसमृद्धिषु' इति विश्वः । तथा चोपमालंकारः ॥ १६॥

  यानाज्जनः परिजनैरवतार्यमाणा
   राज्ञीर्नरापनयनाकुलसौविदल्लाः ।