पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
पञ्चमः सर्गः ।

  स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
   वक्रश्रियः सभयकौतुकमीक्षते स्म ॥ १७ ॥

 यानादिति ॥ परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः । रुहेर्ण्यन्तात्कर्मणि लटः शानजादेशः। 'रुहः पोऽन्यतरस्याम्' (७।३।४३) इति पकारः । नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदल्लाः कञ्चुकिनो यासां ताः । 'सौविदल्लाः कञ्चुकिनः' इत्यमरः । स्रस्ता अवरोपणसंक्षोभादपसृता अवगुण्ठनपटा नीरङ्गीवस्त्राणि यासां ताः । अत एव क्षणं लक्ष्यमाणा वक्रश्रियो यासां तास्तथोक्ता राज्ञी राजस्त्रीः । 'पुंयोगादाख्यायाम्' (४।१|४८) इति ङीप् । जनः सभयकौतुकमीक्षते स्म । ताडनाद्भयं कामात्कौतुकम् ॥ १७ ॥

  कण्ठावसक्तमृदुबाहुलतास्तुरङ्गा-
   द्राजावरोधनवधूरवतारयन्तः ।
  आलिङ्गनान्यधिकृताः स्फुटमापुरेव
   गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १८॥

 कण्ठेति ॥ तुरङ्गाद्राजावरोधनवधू: राज्ञामवरोधस्त्रिरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधिकारिणः कण्ठेषु स्वकीयेष्ववसक्ता मृदवो बाहुलतास्तदीया येषां ते तथोक्ताः सन्तः स्फुटं व्यक्तमालिङ्गनान्यापुरेव । अन्यथा दुरवरोहत्वाद्ध्याजाच्चेति भावः । आसां वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्तित्वाद्गण्डानां नैर्मल्याच्च न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापाचाराः पापलिङ्गानि प्रकाशयन्तीति भावः ॥ १८॥

  दृष्ट्वेव निर्जितकलापभरामधस्ता-
   व्ध्याकीर्णमाल्यकबरां कबरीं तरुण्याः ।
  प्रादुद्रुवत् सपदि चन्द्रकवान् द्रुमाग्रात्
   सं1घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥ १९ ॥

 दृष्ट्वेति ॥ अधस्तात्तरुतले निर्जितः कलापभरो बर्हमारो यया ताम् । 'कलापो भूषणे बर्हे' इत्यमरः । व्याकीर्णेन विक्षिप्तेन माल्येन कबरां शाराम् । 'कबरः कर्बुरः शारः' इति हलायुधः । तरुण्याः कबरी केशपाशम् । 'कबरी केशपाशोऽथ' इत्यमरः। 'जानपद-' (४।१।४२) इत्यादिना ङीष् । दृष्ट्वेवेत्युत्प्रेक्षा। सपदि चन्द्रका अस्य सन्तीति चन्द्रकवान् मयूरः द्रुमाग्रात् प्रादुद्रुवत् प्रद्रुतवान् । 'दु गतौ' लुङि ‘णिश्रि-' (३।१।४८) इत्यादिना च्लेश्वङादेशः । 'अचि श्रुधातु-' (६।४।७७) इत्यादिना उवङादेशः । तथा हि संघ1र्षिणा मत्सरिणा कर्त्रा गुणाभ्यधिकैर्गुणोत्कृष्टैः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकात् 'ईषद्दुः-' (३।३।१२६) इत्यादिना भावे खल्प्रत्ययः । 'तयोरेव कृत्यक्तखलर्थाः' (३।४/७०) इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरीदर्शनहेतुकत्व-

पाठा.1 संहर्षिणा


पाठा०-१ 'संहर्षिणा'.

शिशु० ११