इत्यमरः । उदपाति उत्पतितम् । भावे लुङ् 'चिण् भावकर्मणोः' (३।१६६) इति चिण् 'चिणो लुक्' (६।४।१०४)। विशेषेण सामान्यसमर्थनरूपोऽर्थान्त- रन्यासः ॥३७॥
अन्तर्जलौघमवगाढवतः कपोलौ
हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्याश्रयेष्वपि गुणेषु रराज नीलो
वर्णः पृथग्गत इवालिगणो गजस्य ॥३८॥
अन्तरिति ॥ जलौघे अन्तरित्यन्तर्जलौघम् । विभक्त्यर्थेऽव्ययीभावः । अथवा जलौघं जलपूरमन्तरभ्यन्तरेऽवगाढवतः प्रविष्टवतः । गाहेर्निष्ठाक्तवतुप्रत्ययः । ढत्वष्टुत्वढलोपाः । गजस्य कपोलौ हित्वा क्षणमन्तरीक्षे उपर्याकाशे विततपक्षति- विस्तृतपक्षमूलः । आमूलाद्विततपक्ष इत्यर्थः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' (५।२।२५) इति तिप्रत्ययः । अलिगणो भ्रमरसङ्घो गुणेषु रूपादिषु द्रव्यमाश्रयो येषां तेषु द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् , द्रव्यसमवेतत्वाच्च । द्रव्याधीनसत्ताकेषु सत्स्वपीत्यर्थः । पृथग्गतः जलमजनभयात् स्वाश्रयपरिहारेण स्थितो नीलो वर्णों नीलरूपं गजस्य नीलिमेव रराज । 'गुणे शुक्लादयः पुंसि', इत्यमरः । अत्रालिगणे सादृश्याद्गजनीलत्वाश्रयादन्यत उपलब्धिनिर्वाहाय पृथक् स्थितिविशिष्टत्वमुत्प्रेक्ष्यते ॥ ३८ ॥
संसर्पिमिः पयसि गैरिकरेणुरागै-
रम्भोजगर्भरजसाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभा-
वन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ३९ ॥
संसर्पिभिरिति ॥ सरिच्च महेभश्च सरिन्महेभौ पयसि संसर्पिभिः गजात्स- रिजले विसृत्वरैः गैरिकरेणवो धातव एव रागास्तैः । करणे घञ् । अङ्गनिषङ्गिणा गजाङ्गसङ्गिना अम्भोजगर्भरजसा पद्मान्तःपरागेण च निमित्तेन क्रीडया लीलया उपभोगं संभोगमनुभूयान्योन्यं मिथो वस्त्रयोः परिवर्तं विनिमयं व्यधत्तामकुरु- तामिव । दधातेर्लङि परस्मैपदे तसस्तामादेशः । अत्र सरिन्महेभयोः प्रतीयमान- नायिकादेरभेदाध्यवसायेन वस्त्रविनिमयोत्प्रेक्षा ॥ ३९ ॥
यां चन्द्रकैर्मदजलस्य महानदीनां
नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो
धौताङ्गलग्ननवनीलपयोजपत्रैः॥४०॥
यामिति ॥ गजेन्द्राः विकसतः समन्तात्पयसि तैलबिन्दुवत्प्रसरतो मदज.
लस्य चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनां यां नेत्रश्रियं विदधुः चक्रुस्तां नेत्रश्रिय-