पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
पञ्चमः सर्गः ।

 अद्रीन्द्रेति ॥ अद्रीन्द्रस्य रैवतकस्य कुञ्जेषु चरति यस्तस्य कुञ्जचरस्य कुञ्जरस्य गण्डकाषेण कपोलसंघर्षणेन संक्रान्तं दानपयो मदाम्बु यस्य तस्यात एव सेनागजेन मथितस्य भग्नस्य वनपादपस्य निजैरात्मीयैः प्रसूनैः पुष्पैः । 'निजमात्मीयनित्ययोः' इति वैजयन्ती । मम्ले म्लानम् । म्लायतेर्भावे लिट् । अलीनां कुलैस्तु यथागतमगामि गतम् । आगतक्रमेणैव गतं न तु म्लानमित्यर्थः । 'आपद्यात्मीयानात्मीययोर्भेदः' इति भावः । गमेर्गत्यर्थस्याकर्मकत्वविवक्षणाद्भावे लुङ् । इभवनपादपादीनां विशेषणसाम्यादापन्नाद्यौपम्यप्रतीतेः कथंचित्समासोक्तिरुन्नेया ॥ ४३ ।।

  नोचैर्यदा तरुतलेषु ममुस्तदानी-
   माधोरणैरभिहिताः पृथुमूलशाखाः।
  बन्धाय चिच्छिदुरिभास्तरसात्मनैव
   नैवात्मनीनमथवा क्रियते मदान्धैः ॥४४॥

 नेति ॥ इभा यदा उच्चैरुन्नतेषु तरुतलेषु न ममुर्नावर्तन्त तदानीमाधोरणैर्नियन्तृभिरभिहिता इमांश्छिन्तेत्युपदिष्टाः पृथुमूलशाखाः बन्धाय स्वबन्धनायैव तरसा बलेनात्मना स्वयमेव चिच्छिदुः । न चैतद्युक्तमिति भावः । यद्वा मूढानां युक्तमेवेत्याह-अथवेति । अथवा मदान्धैरात्मनीनमात्मने हितं न क्रियत एव । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' (५।१।९) इति खप्रत्ययः । 'आत्माध्वानौ खे' (१।४।१६९) इति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपो न । पूर्ववदर्थान्तरन्यासः ॥ ४४ ॥

  उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्त-
   रुत्फुल्लनीलनलिनोदरतुल्यभासः ।
  एकान् विशालशिरसो हरिचन्दनेषु
   नागान् बबन्धुरपरान्मनुजा निरासुः ॥ ४५ ॥

 उष्णोष्णेति ॥ मनुजा नरा उष्णोष्णा उष्णप्रकाराः । 'प्रकारे गुणवचनस्य' (८।१।१२) इति द्विवचनम् । कर्मधारयवद्भावात्सुपो लुक् । तान् शीकरान् सृजन्ति मुञ्चन्तीति तथोक्तान् । क्विप् । अन्तः प्रबलोष्मणः प्रवृद्धतापान् । उत्फुल्लं विकचम् । 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा०) इत्युपसर्गेऽपि फुल्लेनिष्ठानत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभासः समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशालशिरसो विपुलमस्तकानेकान् कतिचिन्नागान् । गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । 'तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्' इत्यमरः । बबन्धुः । अपरान्नागानहीनित्यर्थः । 'दुष्टाब्भ्राहिगजा नागाः' इत्युभयत्रापि वैजयन्ती । निरासुनिष्कासयामासुः । अस्यतेर्लिट् । अत्रोभयेषामपि नागानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ ४५ ॥

  कण्डूयतः कटभुवं करिणो मदेन
   स्कन्धं सुगन्धिमनुलीनवता नगस्य ।