पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
शिशुपालवधे

  दन्तालिकाधरणनिश्चलपाणियुग्म-
   मर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
  स्तोकेन नाक्रमत वल्लभपालमुच्चैः
   श्रीवृक्षकी पुरुषकोनमिताग्रकायः॥ ५६ ॥

 दन्तालिकेति ॥ पुरुषकोऽश्वानां स्थानकभेदः । तदुक्तम्-'पश्चिमेनाग्रपा- देन भुवि स्थित्वाग्रपादयोः । ऊर्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥' इति । पुरुष एव पुरुषकः तेन पुरुषकेण स्थानकेनोन्नमित ऊर्ध्वावस्थितोऽग्रकायः पूर्वकायो यस्य स तथोक्तः अत एवोदयशैलस्य मूर्ध्नो मस्तकादर्धमुदितोऽडर्धोदितो हरिः । सूर्य इव स्थित इत्यर्थः । अर्धोदितविशेषणादुच्चैरुन्नतः श्रीवृक्ष एव श्रीवृक्षकः आवर्तविशेषस्तद्वानश्वः श्रीवृक्षकी । 'वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात् ॥' इति लक्षणात् । 'श्रीवृक्षकी वक्षसि चेद्रोमावर्तो मुखेऽपि च' इति तु वैजयन्ती । दन्तालिका मुखरज्जुः । 'मुखरज्जुश्च दन्ताली राणिका रक्षणीति च' इति वैजयन्ती। तस्या धरणे ग्रहणे निश्चलं स्थिरं पाणियुग्मं यस्य तम् । पाणिभ्यां दृढं गृहीतोभ- यवल्गमित्यर्थः । वल्लभपालमुत्तमाश्वपालम् । 'वल्लभो दयितेऽध्यक्षे कुलीनेऽश्वे- ऽपि वल्लभः' इति विश्वः । स्तोकेन नाक्रमत । वल्गाग्रहणदार्ढ्यात् स्तोकेनाप्यभि- भवितुं न शक्तोऽभूदित्यर्थः । इह 'श्लथयितुं क्षणमक्षमताङ्गना न द्वन्द्वदुःखमिह किंचित्' इत्यादिवदप्यर्थस्य सामर्थ्यलभ्यत्वादपेरप्रयोगः । अन्यथा स्तोकेन नाक्र- मत किंतु भूय इति व्याख्याने निश्चलपाणियुग्मत्वादिविशेषणावगतवाहकौशल्य- प्रकाशनतात्पर्यभङ्गप्रसङ्गात् । 'करणे च स्तोकाल्प-' (२।३।३३) इत्यादिना विकल्पा. तृतीया 'अनुपसर्गाद्वा' (वा०) इति विकल्पादात्मनेपदम् । उपमालंकारः ॥५६॥

  रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्ति-
   देवैरिवानिमिषदृष्टिभिरीक्ष्यमाणः ।
  श्रीसंनिधानरमणीयतरोऽश्व उच्चै-
   रुच्चैःश्रवा जलनिधेरिव जातमात्रः॥ ५७ ॥

 रेज इति ॥ स्नपनेनाभिषेचनेन सान्द्रतरार्द्रमूर्तिः अनिमिषदृष्टिभिर्विस्मया- दनिमिषा:र्जनैर्देवैरिव तादृग्भिरीक्ष्यमाणः श्रियः शोभायाः, देव्याश्च संनिधानेन रमणीयतरः । 'तत्र संनिहिता लक्ष्मीः सन्ति यत्रोत्तमा हयाः' इत्यागमादिति भावः । उच्चैरुन्नतोऽश्वो जलनिधेः समुद्राज्जात एव जातमात्रः । सद्योजात इत्यर्थः । अन्यथोक्तसाधर्म्यासंभवादिति भावः । 'मात्रं कार्त्स्येऽवधारणे' इत्यमरः । उच्चै- रुन्नतं श्रवः कीर्तिरुन्नते श्रवसी कर्णौ वा यस्य स उच्चैःश्रवाः शक्राश्व इव रेजे । उपमालंकारः ॥ ५७ ॥

  अश्रावि भूमिपतिभिः क्षणवीतनिद्रै-
   रश्नन् पुरो हरितकं मुदमादधानः ।