पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
शिशुपालवधे

षष्ठः सर्गः ।

 अथ ऋतुवर्णनं प्रस्तौति-

 अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
 ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥

 अथेति ॥ अथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसुं रन्तुमिच्छम् । रमेः सन्नन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् । विप् । तं विपदन्तकृतम् । सेव्य- मिति भावः । अमुं हरिं निषेवितुं स्वतरून स्वस्वनियतवृक्षाननतिक्रम्य यथास्वतरु । यथार्थेऽव्ययीभावः । यथास्वतरुस्थिता प्रसवश्रीः पुष्पफलसंपत्तिः यथास्वतरु- प्रसवश्रीः । 'प्रसवस्तु फले पुष्पे' इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतरुप्रसवश्रिया। यथास्वतस्कृतप्रसवश्रियेत्यर्थः । ऋतुगणेन युगपद्भुवि पदमादधे आहितम् । युगपद्दतुगणः प्रादुरभूदित्यर्थः । नह्यवसरं सेवकाः क्षिपन्तीति भावः । अत्र सर्गे सर्वत्र यमकशब्दालंकारः । तल्लक्षणं तूक्तं चतुर्थे । अर्थालंकारस्तु यथासंभवमूह्यः । अस्मिन्सर्गे द्रुतविलम्बितं वृत्तम् । द्रुतविलम्बि- तमाह नभौ भरौ' इति लक्षणात् ॥ १ ॥

 अथ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तमादौ वर्णयति-

 नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
 मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभि सुमनोभरैः ॥२॥

 नवेति ॥ स हरिः पुरोऽग्रे प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशव- नानि किंशुककाननानि यस्मिंस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहु- व्रीहिः । 'पलाशः किंशुके पत्रे पलाशम्' इति विश्वः । स्फुटानि विकचानि परागै रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिंस्तं स्फुटपरागपरागतप- ङ्कजं । मृदुलाः कोमला अत एव तान्ताः आतपसमये किंचिन्म्लाना लतान्ताः पल्लवा यस्मिंस्तं मृदुलतान्तलतान्तं सुमनोभरैः पुष्पसमृद्धिभिः सुरभिं सुगन्धिं सुरभिं वसन्तमलोकयदपश्यत् । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्' इति विश्वः । इह प्रतिपादं प्रथमाक्षरद्वयात् पर- तोऽक्षरत्रयावृत्तिरूपयमकप्रक्रमाच्चतुर्थपादेऽपि तदेव यमकम् । एकस्मादप्यपर- मिति सजातीयसंसृष्टिः ॥ २ ॥

 विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
 तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥३॥

 विलुलितेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकरः सन् मृगदृशां लला-

टजं श्रमवारि स्वेदमामृशन् परिमृजन् । मन्द इति भावः । सरसां तनुतरङ्गततिं