पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
षष्ठः सर्गः ।

इत्यर्थः । अत एवेदं विरागि विरक्तिमदलिकदम्बकं परागिणीः परागवतीरिति विरक्तिहेतूक्तिः । अम्बुरुहां ततीरपास्य तवाभिमुखं वलते चलति । विशिष्टल. ताभ्रमादिति भावः । तथा च भ्रान्तिमदलंकारो व्यज्यते ॥ ११ ॥

 अथालेस्तदभिमुखागमने कारणमाह -

 सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
 अलमलेरिव गन्धरसावम् मम न सौमनसौ मनसो मुदे ॥१२॥

 सुरभीति ॥ तव सुरभिणि श्वसिते निश्वासमारुते नवसुधावन्मधुरे अधरे च तृषं तृष्णां दधतो दधानस्यालेभ्रमरस्य ममेवामू उपलभ्यमानौ सुमनसां पुष्पाणां संबन्धिनौ सौमनसौ गन्धरसौ सौरभमाधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयंग्रहाश्लेषसुखार्थिनः प्रियस्य तद्भयहेतोरलेरेवागमनहेतुत्वेनात्र दृष्टान्तेन मुखसौरभरसलोभभरकुसुमवैराग्ययो. र्वर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि ममशब्देनेवशब्दस्यान्वयः । 'वलते. ऽभिमुखं तव अलिभयादिव सस्वज' इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोप- मेयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमहिचलनाध्वमार्ग- णेन । अत्रोपमानुप्रासयमकानां तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यम- कानां त्रयाणां चतुर्थपादादावेकस्मादक्षरात् , द्वाभ्यां, त्रिभ्यश्च परतोऽक्षरत्रयावृ. त्तिलक्षणानां स्थितत्वात् सजातीयसंसृष्टिश्चेष्टा ॥ १२ ॥

 इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
 प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥१३॥

 इतीति ॥ इतीत्थं गदन्तं प्रणयिनं अनन्तरं भुजयुगस्योन्नमनेनोच्चतराव- त्युनतौ स्तनौ यस्याः सा । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (४॥१॥५४) इति ङीष् । वलिभया वलयो विद्यन्ते यस्यास्तया वलिमत्या । 'तुन्दिवलिवटेर्भः' (५।२।१३९) इति भप्रत्ययः । उदरश्रिया मध्यशोभया उपलक्षिता अङ्गना अलिभयादिव रभसात् सस्वजे आलिलिङ्ग । वस्तुतस्तु रागादेवेति भावः । 'ष्वञ्ज परिष्वङ्गे' इति धातोः कर्तरि लिट् । 'लज्जामन्मथमध्यस्था मध्येयं नायिका मता' इति ॥ १३ ॥

 वदनसौरभलोभपरिभ्रमद्भमरसंभ्रमसंभृतशोभया ।
 चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया १४

 वदनेति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरेण हेतुना यः संभ्रमस्तेन संभृतशोभया संपादितश्रिया चलितया अलिसंभ्रमात्प्रस्थितया अत एवालकैरलकपातैर्लोलदृशा चञ्चलाक्ष्या अन्यया स्यन्तरेण कलो मेखलायाः कलकलः कोलाहलो विदधे विहितः । अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरज- नीत्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयसंभ्रमः। अनुप्रासयमकयोः सजा- तीयशब्दालंकारयोः संसृष्टिः स्पष्टैव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः

शिशु० १३