पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
षष्ठः सर्गः ।

त्वनृतं वचः' इत्यमरः । बहुव्रीहौ विशेष्यलिङ्गता *ब्राह्मणादित्वाद्रस्वः । ततो नञ्समासः । अवितथाः सत्यः मा वितथा मा कृथाः। वृथातिशोकेन मा मृथा इत्यर्थः । विपूर्वात्तनोतेर्लुङि थास् 'तनादिभ्यस्तथासोः' (२।४/७९) इति विभाषा सिचो लुक् 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः 'न माङयोगे' (६/४/७४) इत्यडागमप्रतिषेधः ॥ १८ ॥

 न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः ।
 प्रणयिनो निशमय्य वधूर्वहिः खरमृतैरमृतैरिव निर्ववौ॥१९॥
        (विशेषकम् ।)

 नेति ॥ किं चासौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुस- मूहेन । 'ग्रामजनबन्धुसहायेभ्यस्तल्' (४।२।४३) इति तल्प्रत्ययः । उदितैरुक्तैः । वदेः कर्मणि क्तः । ऋतैः सत्यवचनैः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । 'शमु अदर्शने' इति चौरादिकाल्ल्यप् ‘मित्त्वाद्रस्वः' (६।४।९२) 'ल्यपि लघुपूर्वात्' (६४५६) इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वाते. लिट् । 'निर्वाणं निर्वृतिः सुखम्' इति ॥ १९ ॥

 मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
 मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥२०॥

 मधुरयेति ॥ मधुरया मनोहरया मधुना वसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुष्पधर्मः पुष्पितासूपचर्यते । तासां माधवीनामतिमुक्तलता- नाम् । 'अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता' इत्यमरः । मधुसमृद्ध्या मकरन्दसंपदा समेधितमेधया संवर्धितप्रतिभया अत एव उन्मदयतीत्युन्मदो मदकरः । पचाद्यच् । तं ध्वनिं बिभर्तीत्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुर्निभृताक्षरम् । लक्षणया स्थिरनादं यथा तथेत्यर्थः । अथवा सर्वः शब्दो वर्णात्मक एव व्यञ्जकविशेषाभावादस्फुट इति मतमाश्रित्योक्तं सर्वपथीनाः कवय इति । उज्जगे उच्चैर्गीतम् । गायतेरविवक्षितकर्मकाद्भावे लिट् । 'बन्धवै. षम्यराहित्यं समता पदगुम्फने' इति लक्षणात्समताख्यो गुणः ॥ २० ॥

 अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
 विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१॥

 अरुणितेति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पथिकानध्वगान् , विरहिणश्च परितापिनः संतापवतो विदधती उच्चैरेवोच्चकैरु. न्नता । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (५।३।७१) इत्यकच् प्रत्ययः । विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहश्रियं दवाग्निशो- भामुदवहत् । निदर्शनालंकारः ॥ इति वसन्तवर्णनम् ॥ २१ ॥ [* व्याख्यासुधायां तु “अजिति योगविभागेन समासान्तेऽचि जाते 'यस्येति च'

(६।४।१४८ ) इति आकारलोपः" इत्युक्तम् । ]