पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
शिशुपालवधे

 पटलमिति ॥ पथिकाङ्गना काचित्प्रोषितभर्तृका अत एव सपदि जीवितसंशयं मरणमेष्यती । निश्चितमरणेत्यर्थः । 'आच्छीनद्योर्नुम्' (७।१८०) इति विकल्पा- बुमभावः । अत एव सनयनाम्बोः सबाष्पस्य सखीजनस्य संभ्रमाक्षोभाद्विधुर- बन्धुः संभ्रमदर्शनाद्विह्वलबन्धुजना सती अम्बुमुचां पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेर्लङ् 'आटश्च' (६।१।९०) इति वृद्धिः । इह विरहवेदनाक्षमाया नायिकाया मरणसाधनमेघपटलावेक्षणवर्णनायां तदुद्योग- लक्षणा मरणावस्थोक्ता । सा हि द्विविधा तदुद्योगस्तद्योगश्चेत्याहुः । 'दृङ्मनःसङ्ग- संकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश ॥' इत्यवस्थासंग्रहः ॥ २९॥

 प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः ।
 नमयति स वनानि मनस्विनीजनमनोनमनो घनमारुतः ३०

 प्रवसत इति ॥ कन्दली भूकन्दली । 'द्रोणपर्णी स्निग्धकन्दा कन्दली भूमि- कन्दली' इति शब्दार्णवः । तस्याः पुष्पाणि कन्दलानि । 'फले लुक्' (४।३।१६३) इत्यणो लुक् । विदलानां विकचानां कन्दलानां कम्पनेनावधूननेन लालित उप- स्कृतो मनस्विनीजनस्य मनसां नमनो नमयिता । मानिनीमानभञ्जन इत्यर्थः । कर्तरि ल्युट् । घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान् सुतरामुदकम्पयत् उद्वेजितवान् । मनस्विनीमानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः ॥ ३०॥

 जलदपतिरनर्तयदुन्मदं कलविलापि कलापिकदम्बकम् ।
 कृतसमार्जनमर्दलमण्डलध्वनिजया निजया खनसंपदा ॥३१॥

 जलदेति ॥ निजया आत्मीयया स्वनसंपदा कृतः समार्जनस्य मार्जनाख्यसं- स्कारसहितस्य मर्दलमण्डलस्य ध्वनेर्जयो यया सा तथोक्ता । मार्जनं नाम मर्द- लानां ध्धननार्थं भस्ममृदिताम्भःपुष्करलेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कल- विलापि मधुरालापि कलापिकदम्बकं मयूरवृन्दमनर्तयत् ॥ ३१ ॥

 नवकदम्बरजोरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
 मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥३२॥

 नवेति ॥ नवकदम्बरजोभिररुणितमरुणीकृतमम्बरमाकाशं यैस्तैः शिली- न्ध्राणां कन्दलीकुसुमानां यः सुगन्धः स एषामस्तीति शिलीन्ध्रसुगन्धिनस्तैः । गन्धस्यत्वे तदेकान्तग्रहणादिन्प्रत्ययाश्रयणम् । 'कदल्यां च शिलीन्ध्रः स्यात्' इति शब्दार्णवे । वनवायुभिः पुरंध्रीषु स्त्रीषु विषये अधिपुरंध्रि । विभक्त्यर्थे- ऽव्ययीभावः । रागवतां कामिनां मनसि नवनवा नवप्रकारा । 'प्रकारे गुणवच- नस्य' (८॥१॥१२) इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अनुरागिता

आदधे । अनुराग उत्पादित इत्यर्थः ॥ ३२॥