पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
षष्ठः सर्गः ।

प्राच्यादिविवेकं लुम्पन्तमित्यर्थः । जलदकालं प्रावृदकालमपरथा प्रकारान्तरेण आप प्राप । मेघोदयोपाधिना प्रावृड्व्यवहारभाजं तमेव कालं मेघात्ययोपाधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सन्ननेकोपाधिसंबन्धान्नानात्वेनोपचर्यत इति तद्विदः ॥ ४१ ॥

स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥ ४२ ॥

 स इति ॥ अघानां नाशनं निवर्तनं कीर्तनं यस्य सोऽघनाशनकीर्तनः स हरिर्विकचमुत्पलमेव चक्षुर्यस्यास्तामच्छं शुभ्रं गलत् स्रंसमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा ताम् । अत एव क्षितिभृतोऽङ्कगतामुत्सङ्गगतां दयितामिवेत्युत्प्रेक्षा । शरदमैक्षत ॥ ४२ ॥

जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्क च नारयः ॥ ४३ ॥

 जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' (४।३।१४) इति विकल्पादण् प्रत्ययः । तमस्तिमिरम् अदिग्रवद्रावयति स्म । निरस्तवानित्यर्थः । 'द्रु गतौ' । णौ चङि उपधाहस्वः। सन्वद्भावः । 'स्रवतिशृणोतिद्रतिप्रवतिप्लवतिच्यवतीनां वा' (७।४।८१) इत्यभ्यासस्य विकल्पादित्वम् । वियत्याकाशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिद्रवत् । जलजराजिषु निद्रामेव नैद्रं निमीलनं तदेव तमः अदिद्रवत् । तथा हि-महतां महात्मनां अरयः क्क च क्क वा न नाहताः अहता न । किंतु सर्वत्र हता भवन्तीत्यर्थः । द्वितीयनिषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः । पुनः क्केति क्कशब्दसामर्थ्यात् प्रकृतार्थपर्यवसानम् । वैधर्म्येण सामान्याद्विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४३ ॥

समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥

 समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । 'विप्रतिषिद्धं चानधिकरणवाचि' (२।४।१३) इति विकल्पाद्धन्द्वैकवद्भावः । करोतीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । 'नेर्गदनद-' (८।४।१७) इत्यादिना णत्वम् । शरदि हंसरवाः परुषीकृतस्वरा निष्ठुरीकृतनादा मयूरा यस्मिन्कर्मणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्ताः । यातेर्लङि 'लङः शाकटायनस्यैव' (३।४।१११) इति झेर्जुसादेशः, 'उस्यपदान्तात्' (६।१।९६) इति पररूपं संहितायां 'ढूलोपे पूर्वस्य दीर्घोऽणः'। (६।३।१११) शरत्प्रावृषोर्हसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात् काल एव प्राणिनां बलाबलनिदानं व्यक्तमभूदित्यर्थः ॥ ४४ ॥

तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहंगमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ४५