पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
षष्ठः सर्गः ।

लोपश्च । पृषतां बिन्दूनां पतिर्वायुः । 'पृषन्ति विन्दुपृषताः' इत्यमरः । अध्वानं गच्छन्तीत्यध्वगाः पथिकाः । 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' (३।२।४८) तद्योषितां प्रोषितभर्तृकाणां दृशामतनुतापकृतं महासंतापकारिणीं सलिलसंततिमतनुत । उष्णमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहिणीदुःसहोऽजनीति भावः ॥ ५५ ॥

 सर्वदापि वियोगिनामुद्दीपकवायोर्हेमन्ते वैशिष्ट्यमाचष्टे-

इदमयुक्तमहो महदेव यद्वरतनोः सरयत्यनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥

 इदमिति ॥ अनिलो वायुरन्यदान्यस्मिकाले । ग्रीष्मादावित्यर्थः । 'सर्वैकान्य-' (५।३।१५) इत्यादिना दाप्रत्ययः । वियोगिनो वियुक्तान् । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वम् । वरतनोः । वरतनुमित्यर्थः । 'अधीगर्थ-' (२।३।५२) इत्यादिना कर्मणि शेषे षष्ठी । स्मरयतीति स्मरतेराध्याने मित्त्वाद्भस्वत्वम् । इदं स्मारकत्वमपि महदत्यन्तमयुक्तमेव । सहकारिविरहादिति भावः । अहो अत्यन्ताकिंचित्करत्वाद्विस्मयः । हेमन्ते तु हन्तृत्वमप्यस्य संभवतीत्याह–सतुहिनः तुहिनसहितस्तु सयौवना यौवनयुक्ताः अत एव सोष्माणो ये पयोधराः कुचास्ते स्मृता यैस्तान् स्मृतसयौवनसोष्मपयोधरान् वियोगिनो वियुक्तान् । 'तथायुक्तं चानीप्सितम्' (१।४।५०) इति कर्मत्वम् । हिनस्तु हन्तु । संभावनायां लोट् । हेमन्ते हि हिमसहकारात् कुचोष्मैकसाध्यदुःखोत्पादनसामर्थ्याद्वियोगिमारकत्वमपि संभाव्यते । ग्रीष्मादौ तु ताहक्सहकारिविरहात् स्मारकत्वमप्ययुक्तमित्यर्थः । अमारके मारकसंबन्धोक्तेरतिशयोक्तिभेदः । इह सहजकविप्रौढोक्तिसिद्ध्योरभेदाध्यवसाय इति रहस्यम् ॥ ५६ ॥

प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः॥५७॥

 प्रियतमेति ॥ अत्राद्यपर्याये न सह सा इति त्रेधा विभागः । अन्यत्र सहसेत्येकं पदम् । सरुषा सरोषया यया स्त्रिया का प्रियतमेन सह न स्थितम् । नपुंसके भावे क्तः । सा अङ्गना स्त्री सहसा मार्गशीर्षमासेन । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । कृतवेपथुर्जनितकम्पा सती । 'द्वितोऽथुच्' (३।३।८९) इत्यथुच्प्रत्ययः । तं पूर्वमगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । 'अथो हसः । हासो हास्यं च' इत्यमरः । 'स्वनहसोर्वा' (३।३।६२) इति विकल्पादप्प्रत्ययः । सहसा शीघ्रम् । स्वरादिपाठादव्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः । श्लथयितुं नाक्षमत । शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ ५७ ॥

 शिशु० १४