पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
शिशुपालवधे

भृशमयत याऽधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवसितेव सितेन सुनिर्ववौ ॥५८॥

 भृशमिति ॥ अनावरणा आवरणरहिता या अधरपल्लवस्य क्षतिर्व्रणो हिममारुतैर्भृशमदूयतातप्यत । दूञो देवादिकात्कर्तरि लङ् । सा क्षतिः । यत्तदोर्नित्यसंबन्धात् । सीत्कृतैः सीत्कारैः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवसितेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कर्मणि क्तस्येडागमः । सुनिर्ववौ सुष्टु निर्ववार । शीतालुराच्छाद्यत इति भावः । हिमहताधरनिर्वाणस्य सीत्कारकारणकस्य दशनरश्मिपटाच्छादने हेतुत्वोत्प्रेक्षणाद्रूपकोत्प्रेक्षयोः संकरः ॥ ५८ ॥

 उक्तमेवार्थ भङ्गयन्तरेणाह-

व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिममारुतैर्मृदुतया दुतयाधरलेखया ॥ ५९ ॥

 व्रणेति ॥ मृदुतया मार्दवेन हेतुना हिममारुतैर्दुतया पीडितया । 'टुदु उपतापे' इति धातोः सौवादिकात्कर्मणि क्तः । व्रणभृता दन्तव्रणवत्या सुतनोः स्त्रिया अधरो लेखेव तया अधरलेखया क[]र्त्र्या सुतनोः कामिन्याः कलेन सीत्कृतेन हेतुना स्फुरिताः प्रकाशिता ये दन्तमरीचयस्तन्मयं तद्रूपं स्फुटमावरणमाच्छादुनं दध इव धृतमिवेत्युत्प्रेक्षा । दधातेः कर्मणि लिद ॥ ५९ ॥

धृततुषारकणस्य नभखतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयाऽनितया न विषेहिरे ॥६०॥

 धृतेति ॥ धृतास्तुषारकणास्तुहिनशीकरा येन तस्य नभस्वतः पवनस्य संबन्धिनः तरुलता एवाङ्गुलयस्ताभिस्तर्जनानि यानि तान्येव विभ्रमा विलासाः पृथु विशालमिष्टस्य दयितस्य भुजान्तरं भुजमध्यं वक्षःस्थलं निरन्तरमनितया अप्रासया । गाढालिङ्गनमलभमानयेत्यर्थः । इणः कर्तरि क्तः । वनितया स्त्रिया न विषेहिरे न सोढाः । विरहिण्यस्तर्जिता इव नभस्वतो बिभ्यतीति भावः ॥ ६० ॥

हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि ।
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥६१॥

 हिमेति ॥ स्मरमयं स्मरादागतम् । स्मरप्रयुक्तमित्यर्थः । 'तत आगतः' (४।३।७४) इति मयट् । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिणि पुंसां रिरंसाजननात्तेभ्यः स्वानुरागप्रकाशनाच्चात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसंभावनारहितकालेऽपीत्यर्थः । सांहितः 'ऋत्यकः' (६।१।१२८) इति प्रकृतिभावः । भृशं स्विद्यन्ति रागोष्मणा भृशस्विद इति सात्त्विकोक्तिः । क्किप् । हेमन्तोऽपि रागिणां स्वेदहेतुरेव । तद्धेतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान् रमयन्ति स्म। हेमन्तस्योद्दीपकत्वादिति पीडाक्षमत्वात्


  1. 'कर्त्र्या कलशीकृतेन हेतुना.'