पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
सप्तमः सर्गः ।

इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत् , उभयश- ब्दस्यैव यथा स्यादित्युभयत्रेत्यादि भवतीति । लघुनी द्रुते ललिते च पदे यस्मि- न्कर्मणि तद्यथा तथा कठिनाभ्यां कुचचूचुकाभ्यां स्तनाग्राभ्यां यः प्रणोदो निपीडनं तेन सह यथा तथा । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । तेन सह-' (२।२।२८) इत्यादिना समासे 'वोपसर्जनस्य' (६।३।८२) इति सहशब्दस्य सभावः । णोपदेशत्वात्प्रणोद इति णत्वम् । सविलासं च प्रियमन्वियायानुजगाम । एषा पृष्ठगामिनी ॥ १९॥

 जघनमलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
 दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥२०॥

 जघनमिति ॥ काचित्स्त्री अलघू गुरू पीवरौ पीनौ चोरू यस्य तत् उरु- निर्महान् बिरीसो निबिडः । “निबिडं निबिरीसं च दृढं गाढं प्रचक्षते' इति वैजयन्ती । 'नेर्बिडज्बिरीसचौ' (५।२।३२) इति निशब्दाद्विरीसच्प्रत्ययः । स च यो नितम्बः स्त्रीकटिपश्चाद्भागः । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः । स एव भारस्तेन खिद्यत इति तथोक्तम् । आभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरोधरायां ग्रीवायामवलम्बिन्योर्लम्बमानयोः स्वभुज- लतयोर्विभवेन सामर्थ्येन कृच्छ्रादूहे उवाह । वहेः स्वरितेत्त्वात्कर्त्रभिप्राय आत्म- नेपदम् । इयं च पृष्टगामिनी प्रियकण्ठावलम्बा ॥ २० ॥

 अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
 निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या २१

 अनुवपुरिति ॥ अन्या स्त्री वपुषः पश्चादनुवपुः स्त्रीपृष्ठभागः । 'अव्ययं विभक्ति-' (२/१/६) इत्यादिना पश्चादर्थेऽव्ययीभावः । बाहुमूलयोः स्त्रीकक्षयोः प्रहितावधःप्रसारितौ भुजौ ताभ्यामाकलितस्तनेन गृहीतस्तनेन कपोले निहितदश- नवाससा न्यस्ताधरेण किंचिदावृतमुख्याः सत्याः कपोलं चुम्बतेत्यर्थः । अपरेण कामिना विषमं प्रियाङ्गिसंघर्षात् श्लिष्टं वितीर्णपदं न्यस्ताङ्घ्रि यथा तथा बलादिव निन्ये नीता। आरोप्य नीयमानेव गमयांचक्र इत्यर्थः । एषा पुरोगामिनी ॥२१॥

 अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः।
 उरसि सरसरागपादलेखाप्रतिमतयानुययावसंशयानः ॥२२॥

 अनुवनमिति ॥ अपरः कामी अनुवनं वनं प्रति सखीभिः सह पुरोगतायाः असितभ्रुवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आर्द्रो रागो लाक्षारञ्जनं यस्य तस्य पादस्य या लेखा विन्यासः सा प्रतिमोपमानं यस्याः सा तत्प्रतिमा तस्य भावस्तत्ता तया । तत्सदृशतयेत्यर्थः । असंशयानोऽसंदिहानः । शीङो लटः कर्तरि शानजादेशः । अनुययौ । अत्र पादरेखाप्रतिमतयेति सादृश्यवस्तुना सुर- तकालीनं पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतः- सिद्धार्थशक्तिमूलो वस्तुध्वनिः संलक्ष्यक्रमध्वनेर्भेदः ॥ २२ ॥

-