असकलेति ॥ मरुद्वनानिलः असकला असमग्राः । अर्धविकचा इत्यर्थः । ताभिः कलिकाभिः कोरकैराकुलीकृतानां संक्षोभितानामलीनां स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ता विकासिनः केशराः किंजल्का येषां तेषामवनिरुहाम् । क्विप् । रजः परागं वधूभ्यः समुपहरन् प्रयच्छन् । यथा कश्चित्कामीति भावः । धनमर्जयन्वसतीतिवत् , 'लक्षणहेत्वोः क्रियायाः' (३।२।१२६) इति हेत्वर्थे शतृप्रत्ययः । कोरकाणि कुमलानि । 'कलिका कोरकः पुमान्' इत्यमरकोशेपुंस्त्वाभिधानं प्रायिकाभिप्रायम् । 'कोरकं कुड्मलेऽपि स्यात्कक्कोलकमृणालयोः' इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकाशयामासेत्यर्थः । विपूर्वात्किरतेः करोतेर्वा लिट् । अत्र कोरकविकाशकरणस्य समुपहरन्निति हेत्वर्थेन वधूसंप्रदानकपरागोपहरणार्थत्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ २६ ॥
उपवनपवनानुपातदक्षैरलि1भिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु संपदोऽग्रतःस्थाः २७
उपवनेति ॥ वने इत्युपवनम् । विभक्त्यर्थेऽव्ययीभावः । तत्र यः पवनः तस्यानुपातेनानुसारेण दक्षैर्विचक्षणैरलिभिर्यद्यतः कारणादङ्गनाजनस्य संबन्धी परिमलो गन्धविशेषः । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । स एव विषयो भोग्यार्थः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इति । 1अलाभि लब्धः । लभेः कर्मणि लुङ् ‘विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पा2न्नुमभावः 'अत उपधायाः' (७।२।११६) इति वृद्धिः । तस्मादुन्नतानां महतामनुगमने पश्चाद्धावने, अनुवृत्तौ च संपदोऽग्रतःस्थाः पुरोवर्तिन्यः खलु। 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । अत्रानुगमनयोर्द्वोरभेदाध्यवसायात् श्लेषोत्था- पितातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः सामान्येन विशेषसमर्थनरूपः ॥२७॥
रथचरणधराङ्गनाकराब्जव्यतिकरसंपदुपात्तसौमनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् २८
रथेति ॥ सुमनसः पुष्पाणि रथचरणं चक्रं तस्य धरो धारयिता हरिः । पचाद्यच् । तस्याङ्गनास्तासां कराञ्जैः व्यतिकरः संपर्कः स एव संपत् तयोपात्तं लब्धं सौमनस्यं सुमनस्कत्वं संतुष्टचित्तत्वं याभिस्ताः सत्यः अत एव सौमनस्यलाभ आदिर्यस्मिन्कर्मणि तत्तदादि । ततः प्रभृतीत्यर्थः । अर्थतः पूर्वोक्तावयवार्थात् परिस्फुटं प्रसिद्धावयवार्थमभिधानं सुमनस इति नामधेयं दधति । पूर्वं त्वश्वकर्णका- दिवद्रूढमिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । स्त्रियः । पुष्पाण्यवचेतुं प्रवृत्ता इति फलितोऽर्थः । नूनमित्युत्प्रेक्षायाम् । अत्रोपा- सौमनस्या इति सौमनस्योपादानस्य पदार्थस्य विशेषणगत्या सुमनःपदान्वर्थता- हेतुकत्वोक्त्या काव्यलिङ्गम् । तदुत्थापिता चेयं तदादित्वोत्प्रेक्षेति संकरः । तेन चाङ्गनाकराणामतिश्लाघ्यत्वं व्यज्यते ॥ २८ ॥
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥२९॥
पाठा०-१०रलम्भि यदङ्गनागणस्य'. २ 'नुम्भावः'.