पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
शिशुपालवधे

 अभिमुखेति ॥ अभिमुखपतितैः भञ्जनार्थमभिमुखमागतैः उज्ज्वलामुत्कृष्टामु- द्धतिमुपरिप्रसारमौद्धत्यं च दधानैरङ्गनानामग्राणि च ते हस्ताश्चेति समानाधिकर- णसमासः । अत एव 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोरभेदात्' इति वामनः । तैरग्र- हस्तैः कर्तृभिः गुणप्रकर्षाद्धेतोरवजितमवधीरितं तरुकिसलयजालं प्रसभं बलाद्भङ्गं छेदं पराजयं चानीयत नीतम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति किसलयजालस्य प्राधान्यादभिधानम् । अत्राग्रहस्तेषु विशेषणमहिम्ना जिगीषुत्वस्य किसलयज़ाले जेतव्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः ॥ २९ ॥

 मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
 तरुरतिशयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ३०

 मुदितेति ॥ मुदिता हृष्टा मधुभुजो मधुपा यासु ताः शाखा भुजेन हस्तेन चलितानि विशृङ्खलान्यप्रतिहतरवाणि शङ्खकानि वलयानि यस्मिन् कर्मणि तद्यथा तथा धुवत्याः कम्पयन्त्याः । 'धू विधूनने' इति धातोस्तौदादिकाच्छतरि ङीप् । 'कृिति च' (1/१/५) इति गुणवृद्धिप्रतिषेधादुवङादेशः । अतिशयिता सौन्दर्ये- णातिक्रान्ता अपराङ्गना यया सा तस्याः शिरसि तरुर्मुदेव तदभिसरणसंतोषेणे- वेति गुणहेतूत्प्रेक्षा । पुष्पवर्षं पुष्पवृष्टिं मुमोच ॥ ३० ॥

 अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
 सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ३१

 अनवरतेति ॥ अनवरतरसेन अनवच्छिन्नद्रवेण, अन्यत्रानुबद्धशृङ्गारेण राग- भाजा रक्तेन, प्रीतिभाजा च करजपरिक्षतिषु नखक्षतेषु लब्धसंस्तवेन प्राप्तपरि- चयेन । 'संस्तवः स्यात्परिचयः' इत्यमरः । वध्वा विगतदयं निर्दयं यथा तथा खण्डितेन छिन्नेन निराकृतेन च तरुणपल्लवेन नवकिसलयेन युवविटेन च । 'पल्लवः किसलये विटे' इति विश्वः । सपदि मम्ले म्लानम् । खलु प्रसिद्धौ । म्लायतेर्भावे लिट् । अत्राभिधायाः प्रकृतार्थे नियन्त्रितत्वादप्रकृतार्थप्रतीतेः शब्दशक्तिमूलो ध्वनिः । न श्लेषः । तेन चोभयोः पल्लवयोरौपम्यं गम्यते ॥ ३१ ॥

 अथासां पुष्पावचये शृङ्गारचेष्टाः वर्णयन् कस्याश्चिच्चेष्टाविशेषमेकेनाह-

 प्रियमभि कुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
 मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽशुकेन ॥३२॥

 प्रिय मिति ॥ अन्या स्त्री प्रियमभि । प्रियस्याग्रत इत्यर्थः । 'अभिरभागे' (१/४/९१) इत्यभेर्लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । कुसुमेषूद्यतः कुसुमोद्यतः । कुसुमग्रहणार्थमुक्षिप्त इत्यर्थः । प्रकृतिविकारभावाभावान्न तादर्थ्ये चतुर्थीसमासः । तस्य बाहोर्नवं यन्नखं नखक्षतं तदेव मण्डनं तेन चारु सुन्दरं मूलम् । कक्षभागमित्यर्थः । मुहुरितरकरेण सव्यपाणिना आहितेन निहितेनां- शुकेनोत्तरीयेण पीनं स्तनतटं रुणद्वीति पीनस्तनतटरोधि तदावरणं यथा तथा तिरोदधे तिरश्वकार । अयं चापलाख्यः संचारिभावः । 'आत्मप्रकाशिची चेष्टा

रागादेश्चापलं मतम्' इति लक्षणात् । प्रौढा चेयम् ॥ ३२ ॥