पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
अष्टमः सर्गः ।

 नीरन्ध्रेति ॥ नीरन्ध्रैः सान्द्रैः द्रुमैः शिशिरां भुवं व्रजन्तीर्गच्छन्तीः ताः स्त्रीः अतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाकुलीकृतानां चालितानां शाखानामन्तरालैर्नीरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशङ्कम् । परदारत्वात्सभयमित्यर्थः । करैः पस्पर्श स्पृष्टवान् । अत्र चलच्छाखाहेतुकस्य तपनकरस्पर्शस्यौत्सुक्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥ ३ ॥

 अथ कस्याश्चिद्वृत्तं श्वेतातपत्रं चन्द्रत्वेनोत्प्रेक्षते-

  एकस्यास्तपनकरैः करालिताया
   बिभ्राणः सपदि सितोष्णवारणत्वम् ।
  सेवायै वदनसरोजनिर्जितश्री-
   रागत्य प्रियमिव चन्द्रमाश्चकार ॥४॥

 एकस्या इति ॥ वदनसरोजेन स्त्रीमुखपङ्कजेन निर्जितश्रीश्चन्द्रमाः। एतेन वदनसरोजस्य चन्द्रविजयात् सरोजान्तरवैलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालिताया भीषितायाः। पीडिताया इत्यर्थः । 'करालो भीषणेऽन्यवत्' इति विश्वः । एतेन सेवावकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः सपदि आतपक्षण एव सितोष्णवारणत्वं स्वयमेव श्वेतातपत्रत्वं बिभ्राणः सन् प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा। पराजितः कयाचित्सेवनया जेतुश्चित्तसंतोषमुपार्जयतीति भावः ॥ ४ ॥

  स्वं रागादुपरि वितन्वतोत्तरीयं
   कान्तेन प्रतिपदवारितातपायाः।
  सच्छत्रादपरविलासिनीसमूहा-
   च्छायासीदधिकतरा तदापरस्याः ॥५॥

 स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुत्तरीयं वितन्वता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदे पदे वारित आतपो यस्यास्तस्या अपरस्याः कस्याश्चिदङ्गनायाः सच्छत्रात् छत्रयुक्तादपरविलासिनीसमूहात् सकाशात् । 'पञ्चमी विभक्ते' (२।३।४२) इति पञ्चमी । अधिकतरा छाया अनातपः कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधृतोत्तरीयच्छायैवानन्यसाधारणी ज्यायसी । मुखकान्तिरपि तस्या एव भूयसीति भावः । 'छाया त्वनातपे कान्तौ' इत्यमरः । एतेन सच्छत्रादच्छत्रस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलंकारः ॥ ५॥

  संस्पर्शप्रभवसुखोपचीयमाने
   सर्वाङ्गे करतललग्नवल्लभायाः ।
  कौशेयं व्रजदपि गाढतामजस्रं
   सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥६॥

 संस्पर्शेति ॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्धस्तं गृहीत्वा