पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
अष्टमः सर्गः ।

कृतकोपादात्मीयं वक्षोजद्वयं पृथुतरेण नेत्रयुग्मेन मुक्तैरम्भोभिर्बाष्पैर्मुहुरसिचदभि- षिक्तवती । तन्मत्सरादिवेति भावः । अतो वस्तुनालंकारध्वनिः। 'लिपिसिचिह्वश्च' (३॥१॥५३) इति सिञ्चतेर्लुङि च्लेरङादेशः॥ ३७ ॥

  कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं
   यैस्तोयैरसिचत वल्लभां विलासी ।
  तैरेव प्रतियुवतेरकारि दूरा-
   त्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ ३८ ॥

 कुर्वद्भिरिति ॥ मुखरुचिं मुखकान्तिं उज्वलां कुर्वद्भिर्यैस्तोयैर्विलासी विल- सनशीलः कामी । 'वौ कषलस-' (३।२।१४३) इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्रमसिचत सिक्तवान् । स्वरितेत्त्वादात्मनेपदम् । 'आत्मनेपदेष्वन्यतर- स्याम्' (२।४।४४) इति सिञ्चतेर्लुङि च्लेरङादेशः । शशधरदीधितिच्छटाच्छैः शशिकरनिकरस्वच्छैः तैरेव तोयैर्दूरात्प्रतियुवतेः सपत्न्याः कालुष्यमाविलत्वं, वैवर्ण्यं चाकारि । स्वच्छतोयैः कालुष्यं कृतमिति विरुद्धकार्योत्पत्तिरूपो विषमभेदः । तच्चान्यत्रेत्यसंगतिः वैवर्ण्यकालुष्ययोरभेदाध्यवसायादतिशयोक्तिस्तदुत्थापितेति संकरः ॥ ३८॥

  रागान्धीकृतनयनेन नामधेय-
   व्यत्यासादभिमुखमीरितः प्रियेण ।
  मानिन्या वपुषि पतन्निसर्गमन्दो
   भिन्दानो हृदयमसाहि नोदवज्रः ॥ ३९ ॥

 रागेति ॥ रागेण विपक्षानुरागेणान्धीकृतनयनेन प्रियेण नामधेयव्यत्यासाद्वि- पक्षनामपूर्वकमभिमुखमीरितः क्षिप्तो वपुषि पतन्निसर्गमन्दः स्वभावजडः तथापि हृदयं भिन्दानो विदारयन्नुदकमेव वज्रोऽशनिरुदवज्रः । 'मन्थौदन-' (६।३।६०) इत्यादिना विकल्पादुदादेशः । मानिन्या विपक्षनामग्रहणजनितकोपवत्या नायिकया नासाहि न सोढः । तीक्ष्णयोगादतीक्ष्णमपि तीक्ष्णं भवतीति भावः । उदवज्र इति केवलनिरवयवरूपकम् ॥ ३९॥

  प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः
   संतापं नवजलविप्रुषो गृहीत्वा ।
  उद्धूताः कठिनकुचस्थलाभिघाता-
   दासन्नां भृशमपराङ्गनामधाक्षुः॥४०॥

 प्रेम्णेति ॥ प्रणयिनि प्रेम्णा प्रियाया उरः सिञ्चति सति कठिनकुचस्थलाभि- घातादुद्धूता उत्पतिता नवजलस्य विप्रुषो बिन्दवः । 'पृषन्ति बिन्दुपृषताःपुमांसो विप्रुषः स्त्रियाम्' इत्यमरः । तस्याः सिक्तायाः संतापं गृहीत्वा आदाया- सन्नां समीपस्थामपराङ्गनां सपत्नीं भृशमधाक्षुः संतापयन्ति स्म । दहतेर्लुङि