काम्या आत्मन इच्छा गुणवदुपघ्नकाम्या तया गुणवदुपघ्नकाम्यया । आत्मनो गुण- वदाश्रयाकाङ्क्षयेत्यर्थः । 'काम्यच्च' (३।१।९) इति काम्यच्प्रत्यये प्रत्ययान्तधातु- त्वात् 'अप्प्रत्ययात्' (३।३।१०२) इति स्त्रियामप्प्रत्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । 'फणां च सप्तानाम्' (६।४।१२५) इति विक- ल्पादेकाराभ्यासलोपौ । गुणवच्छब्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रिय- दिति प्रतीतेः श्लेषानुप्राणितयातिशयोक्त्यानुप्राणितेयमुत्प्रेक्षा ॥ ५३ ॥
आरूढः पतित इति स्वसंभवोऽपि
स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां
वीचीभिस्तटमनु यन्निरासुरापः ॥ ५४॥
आरूढ इति ॥ स्वसंभवोऽप्यात्मसंभवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रयश्च पतितस्तथा भ्रष्ट इति हेतोः । आरूढपतितत्वादित्यर्थः । स्वच्छानां निर्मलानां परिहरणीयतां त्याज्यत्वमुपैति । 'प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः' (याज्ञ० स्मृतौ-व्यव० १८३) इति स्मरणादिति भावः । वीचीभिस्तटमनु तटं प्रति निरासुश्चिक्षिपुः । कुतः । यस्मादापः वधूनां कर्णेभ्यश्च्युतमसितोत्पलम् । स्वसंभवमपीति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः समर्थन- वाक्यगतश्लेषमूलातिशयोक्त्या संकीर्णः ॥ ५४॥
दन्तानामधरमयावकं पदानि
प्रत्यग्रास्तनुमविलेपनां नखाङ्काः ।
आनिन्युः श्रियमधितोयमङ्गनानां
शोभायै विपदि सदाश्रिता भवन्ति ॥ ५५ ॥
दन्तानामिति ॥ तोयेष्वधि अधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गना- नामयावकं प्रक्षालितलाक्षारागमधरं दन्तानां पदानि दन्तक्षतानि । तथा अवि- लेपनां धौताङ्गरागां तनुं शरीरं प्रत्यग्रा नवा नखाङ्काश्च श्रियमानिन्युः प्रापया. मासुः । 'नीवह्योर्हरतेश्चैव' इति वचनाद्द्विकर्मकत्वम् । तथा हि-सतः सज्जनान् , सुन्दरांश्चाश्रिताः सदाश्रिताः, ये केचिदिति शेषः । विपदि विभवाभावकालेऽपि शोभायै वैभवाय भवन्ति । 'क्लपेः संपद्यमाने चतुर्थी वक्तव्या' (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । अर्थान्तरन्यासः ॥ ५५ ॥
कस्याश्चिन्मुखमनु धौतपत्रलेखं
व्यातेने सलिलभरावलम्बिनीभिः ।
किंजल्कव्यतिकरपिञ्जरान्तराभि-
श्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ५६ ॥
कस्याश्चिदिति ॥ धौतपत्रलेखं क्षालितपत्रावलीकं कस्याश्चिन्मुखमनु मुखेन संबद्धं यथा तथा । मुखे इति यावत् । 'तृतीयाथै-' (१।४।८५) इत्यनोः
कर्मप्रवचनीयत्वाद्द्वितीया । सलिलभरेणावलम्बिनीभिर्लम्बमानाभिः । आर्जवं