गताभिरित्यर्थः। किंजल्कव्यतिकरेण केशरमिश्रणेन पिञ्जराण्यन्तराणि मध्यभागा यासां ताभिः । अलकाग्राणि वल्लर्यो मञ्जर्य इवेत्युपमितसमासः । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । ताभिरलकाग्रवल्लरीभिश्चित्रश्रीर्मकरिकापत्रशोभा अलं व्यातेने संपादिता । तनोतेः कर्मणि लिट् । अत्र चित्रस्य श्रीरिव श्रीरिति निदर्श नाभेदः ॥५६॥
अथ श्लोकद्वयेन पुंसामप्यवस्थाभेदं वर्णयति-
वक्षोभ्यो घनमनुलेपनं यदूना-
मुत्तंसानहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ
चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥५७ ॥
वक्षोभ्य इत्यादि ॥ वारि सरउदकं कर्तृ यदूनां यादवानां वक्षोभ्यो घनं सान्द्रमनुलेपनमङ्गरागमहरत । ञित्त्वात्तङ् । *अत्र 'वधूनाम्' इति क्वाचित्कः पाठो वक्षोजानुपेक्ष्य वक्षोमात्रनिर्देशादुत्तरश्लोके तेषामिति पुंलिङ्गपरामर्शाच्च न ग्राह्यः । मूर्धजेभ्यः शिरोरुहेभ्य उत्तंसान् शेखरानहरत । नेत्राणां मदरुचिर्मदरागोऽक्षतैव तथैव तस्थौ । वारिविहारस्यापि रागजनकत्वादिति भावः । अत एव रागद्वयस्या- प्यभेदाध्यवसायेन तदवस्थानिर्देशादतिशयोक्तिः । तथा हि-महतां चक्षुषि भव श्चक्षुष्यः प्रियोऽक्षिजश्च । 'प्रियेऽक्षिजे च चक्षुष्यः' इति विश्वः । 'शरीरावयवाच्च' (४।३।५५) इति यत् । परैरलङ्घ्यो दुर्धर्षः खलु । चक्षुष्य इति श्लेषमूलातिश- योक्तिः । तया पूर्वोक्तया च संकीर्णोऽयमर्थान्तरन्यासः॥ ५७ ॥
यो बाह्यः स खलु जलैर्निरासि रागो
यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्त:-
पातित्वादभिभवनीयतां परस्य ॥ ५८॥
य इति ॥ तेषां यदूनां बहिर्भवो बाह्यः । 'बहिषष्टिलोपो यञ्च' (वा०) इति वचनात् यञ् प्रत्ययः । यो रागोऽङ्गरागः स रागो जलैस्तोयैः, जडैश्च निरासि निरस्तः खलु । अस्यतेः कर्मणि लुङ् । चित्ते यो रागः स तु सैवावस्था यस्य स तदवस्थ एव । न निरस्त इत्यर्थः । अत्र रागयोरभेदाध्यवसायादतिशयोक्तिः । तथा हि सर्वोऽपि धीराणां महतामन्तःपातित्वात् । अन्तर्गतत्वादेवेति यावत् । परस्याभिभवनीयतां न व्रजति । अन्यथा व्रजत्येवेत्यर्थः । पूर्ववदलंकारः ॥ ५८ ॥
फेनानामुरसिरुहेषु हारलीला
चेलश्रीर्जघनतलेषु शैवलानाम् ।
गण्डेषु स्फुटरचनाब्जपत्त्रवल्ली
पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ५९॥
फेनानामिति ॥ वधूनाम् । भ्रष्टभूषणानामपीति भावः । पयसि विभूषणं
[* यदूनाम्' इत्यत्रेति भावः ]